अघटं भृतळमित्यत्र घटाभावभूतलविपया बुद्धिविशेषादिव ।
कुतस्तर्हि सम्बधानुमानम् बुद्धिविशेषादेव विशिष्ट व्यवहारोपपत्तेः ।
न हि तथामति[१] विशिष्टव्यवहारजनकत्वेन सम्वन्धानुमानम्,
अपि तु तव्यापकत्वेन । व्यापकत्वं च तस्य दृष्टान्त प्रतीतमेव [२]
तद्भावेऽपि तद्वळेन सम्वन्धानुमानम् । तथासति ध्वंसस्य
न्यायलीलावतीकण्ठाभरणम्
पलक्षणम् । कुत इति । बुद्धिविशेषणे वा अन्यथासिद्धीति । व्यापकत्वेन तत्सिद्धिर्न तु विशिष्टप्रत्ययविषयत्वेन तज्जनकत्वेन वेत्याह बहि तथासतीति । एतादृशानिष्टप्रसंगभयेन तदन्यविशिष्टबुद्धित्वेन हेतुर्विशेष्यस्तेन न व्यभिचार इति भावः । पूर्वविकल्पपक्षं परिगृह्णाति
न्यायलीलावतीप्रकाशः
संसर्गप्रकाशत्वमेव न चैवं घटव्यवहारोऽपि तत एव स्यादिति घटो Sपि न सिघ्घोदिनि वाच्यम् । घटस्य प्रत्यक्षत्वेन प्रत्याख्यातुमशक्यत्वात्, समवायस्य चातीन्द्रियत्वात् । दृष्टान्तेति । सघरं भूतलमित्या दौ तथादर्शनादित्यर्थः । तद्वलेन-विशिष्टव्यवहारबलेन, भूतलाभावयोरपि समवायः सम्बन्धोऽनुमीयत इत्यर्थः । ध्वंसस्येति । अन्येषामभावानामजन्यत्वादित्यर्थः । समवायिकारणवत्त्व इत्यत्र पाठे समवायिकारणं यस्य तत्त्व इत्यर्थः । ननु विशिष्टव्यवहारो विशिष्टविषयकं
न्यायलीलावतीप्रकाशविवृतिः
यद्यप्यारोपिततत्त्वेऽपि समवायस्य तन्नियतत्वं साध्यं नास्ति, तथापि सम्बन्ध्यात्मक एव तत्र सम्बन्धस्तत्र नियामक इत्यत्र तात्पर्यम् । केचित्तु गोत्वसमवायवानिति प्रतीतौ निर्विषयकेत्यादिहेतौ व्यभि चार इत्यत आह गोत्वसमवायेति । तथाच हेतौ बुद्धिपदेन लौकिकसा. क्षारकारत्वं विवक्षितमारोपस्य चानथात्वात्र तत्र व्यभिचार इति भाव इत्याहुः । तदयुक्तम्, समवायस्य तन्मते विशिष्टबुद्ध्यविषयत्वे- नारापासम्भवात् । विशेषोपादानतात्पर्यमाह अन्येषामिति । यद्यपि