शेपणत्वं चाप्रधानन्यं, प्राधान्यं च विशेष्यत्वम् । तच्च दण्डी पुरुप इन्यत्र पुरुषस्य दण्डाधारत्वम् दण्डपतनप्रतिवन्धकत्वम् (च) ।
आधेयत्वं च दण्डस्य प्रतिवद्धगुरुत्वाधिकरणत्वमप्राधान्यम् ।
समवाधिकारणत्वं तत्त्वादेविशेष्यत्वं समवायिकार्यत्वं च पटदेविशेषणत्वम् । क्षमवायित्वे सति व्यञ्जकत्वं च व्यक्तीनां विशे-
न्यायललावतीकण्ठाभरणम्
तशेवि प्राधान्यमित्यर्थः । । दण्डाधारत्वमेव किमित्यत आह दण्डेति । प्रतिबघ्यपतनानाक्ष्रयत्वे सति पतनप्रतिबन्धक संयोगवन्मूर्त्तत्वमित्यर्थः । अघियत्वं चति । दण्डस्याप्रधानत्वमिति सम्बन्धः । तदेकमित्याह प्रतिबद्धति । गुरुत्वप्रतिबन्धः कार्य्याजनकत्वम् | पटवन्तस्तन्तव इति प्रतीतौ विशेष्यत्वविशेषणत्वे विवेचयति समवायिकारणत्वमिति । एवंसति विशेषणत्वमतीन्द्रियं स्यादिति चेत् । सत्यं, नहि तदपि तत्प्रतीतौ भासते, तन्तुषु पट इत्यत्र वैपरीत्येन विशेषणविशेष्यभावो द्रष्टव्यः । व्यंजकत्वं चक्षुरादीनामत उक्तं समवायित्वे सतीति ।
न्यायलीलावतीप्रकाशः
प्राधान्यमप्राधान्यं च नैकमिति दर्शयन्नाह दण्डीति | समवायिकारणत्वमिति । यद्यपि समवायातन्द्रियत्वे समवायिकारणत्वं प्रत्येतुमशक्यं, तथाप्यप्रतीयमानासंसर्गित्वमनेन विवक्षितम् । व्यञ्जकत्वमिति । यद्यपि व्यक्तिज्ञानजन्यज्ञानविषयत्वं न जातेः तयोः समान संवित्संवेद्यत्वात्, नापि व्यक्तनां जातिज्ञानजनकत्वम्, अतीन्द्रिये तदभावाद, तथापि व्यञ्जकत्वमत्र जातिज्ञाने व्यक्तिप्रवेशावश्यम्भावमात्रं विवक्षितम् । एतावन्मात्रं विशुद्धमातापितृयोनिजत्वेप्यस्तीत्यत उक्तम् समवायि-
न्यायलीलावती प्रकाशविकृतिः
रित्याशङ्कानिराकरणायान्यत्प्राधान्यादिकं दर्शयतीत्याह प्राधान्यमिति । ताथाप्यप्रतीयमनिति । यद्यध्येतदपि न प्रत्ययविषयः उपनतस्य च विषयत्वं तुल्यं समवायिकारणत्वेऽपि, तथापि यत्रेदमेवोपनीतं तत्रेदमेव विशेष्यत्वादिप्रतीतिविषय इत्यभिप्रायेणेदमुक्तम् । न च पूर्वापरोदाहरणेपीदं वर्त्तत इति तत्रान्यनिर्वचनव्यर्थता, एतदप्रतीतितत्प्रती-