सामग्री पर जाएँ

पृष्ठम्:न्यायलीलावती.djvu/७८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७०१
न्याबलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता


स्य सन्देहाभावात् । न द्वितीयः । अयोगिनां परमाणुदर्शनस्यैवाभावात् । प्रमेयत्वेन समवायस्यापि संशयविषयत्वेन विशेषवत्त्वप्रसङ्गात् । निश्चयत्वं च विशेषनिश्चयेनैव व्यभिचारीति न विशेषसिद्धिः ।

 मैवम् । समानजातिगुणकर्मकार्याणामणूनां द्रव्यत्वेनान्योन्यव्यावर्तक समवायिधर्मविशिष्टबुद्धिविषयत्वस्य साधनात् । न च पृथक्त्वादिकमेव [१] परमाण्वन्तरात्परमाणोर्व्यावृत्ति [२] बुद्धिजनकमस्तु । तस्य परमाण्वन्तरवृत्ति [३] पृक्थत्वादिना


न्यायलीलावतीकण्ठानरणम्

 अप्रयाजकत्वेमाह प्रमेयत्वेनेति । विशेषनिश्चयेनैवेति । अन्यथा अन वस्थानादित्यर्थः ।

 समवायिधर्मेति वर्त्तमानायाऽन्योन्याभावव्यावर्त्तनाय | या ही-

न्यायलीलावतीप्रकाशः

निश्चयविषयत्वादिति हेतुरतो गुणवदिन्द्रिय जन्यज्ञानविषयत्वज्ञानस्यापि निश्चयहेतुत्वान्न व्यभिचार: ।

 अप्रयोजकत्वमाह प्रमेयत्वेनेति । निश्चयत्वं चेति । विशेषेऽपि विशेषाभ्युपगमे अनवस्थानादित्यर्थः ।

 समवायिधर्मेति । तथाच नान्योन्याभावेन सिद्धसाधनमिति भावः । या

न्यायलीलावतीप्रकाशविवृतिः

यघटादौ व्यभिचारः, नहि तन्निश्चयस्य विशेषदर्शनजन्यत्वनियमः । न चानुमितिमादायैव तत्र साध्यम्, अनुमितेरप्यनावश्यकत्वादित्यत आह गुणवदिति । गुणवदिन्द्रियजन्यज्ञानविषयत्वमेव विशेष इति तज्ज्ञानमपि विशेषदर्शन मिति तदधीननिश्चयविषयस्य तत्रासवान्नोक्तदोष इति भावः । केचित्तु गुणवदिति दृष्टान्तः । इन्द्रियजन्यत्वं भूयोऽवयवेन्द्रिय सन्निकर्षजन्यत्वं विशेषोऽन्यच्च पूर्ववदेवेति वदन्ति । उभयमतेऽपि योग्यतागर्ने साध्यमतो न व्यभिचारशङ्का । अत्र च परस्परव्यावर्त्तकनिश्चयाधनिनिश्चयविषयत्वं साध्य ( परस्परव्यावृ-


  1. ↑ दिकमपि - मा० पु० पाठः ।
  2. ↑ व्यावृत्त प्रा० पु० पाठः ।
  3. ↑ बर्ति प्रा० पु० पाठः ।