याः द्रव्यत्वान् स च सन्देहो विशेषदर्शनान्निवर्तते सन्देहत्वात्, स्थाणुपुरुषमन्देहवन् [१]। ते च निश्चयविषयाः द्रव्यत्वात् ।
स च निश्चयो विशेषदर्शनाधीनो निश्चयत्वात् ।
न पृथक्त्वेन सिद्धमाघनात् । व्यावृत्तबुद्धिश्च किमन्योन्याभावविशिष्टबुद्धिः व्यावतेकधर्मविशिष्टबुद्धिर्वा ? नाघः। अन्योन्याभावेनैवोपपत्ते । न द्विनीयः । स्वगतसंव्यापरिमाणादिभिरेवोपपत्तेः । संशयविषयाश्च योगिनोऽयोगिनो वा ! नाद्यः । सर्वज्ञत्वेन त-
न्यायलीलावतीकण्ठाभरणम्
नेव साधयितुं पीठमारचयति अणवश्चेति । स च सन्देह इति । भिन्नत्वाभिनत्व कोटिक सन्देह इत्यर्थः । सन्देहत्वा देति । विषयान्तरसञ्चारानाश्यसन्देहत्वादित्यर्थः । विशेष साधकं मानान्तरमाह - ते चेति । चन्द्रमः परभागेऽपि योगिनिश्चयविषयत्वान्न व्यभिचारः । स च निश्चय इति । सन्देहविपर्थ्ययोत्तरकालीनो निश्चय इत्यर्थः । निश्चयत्वादित्यत्रापि तत्रैवविवक्षिता (?) अनुगतेति तेषामपि कथञ्चिद् व्यावृत्तबुद्धिजमकत्वादित्यर्थः
न्यायलीलावतीप्रकाशः
न विशेषसिद्धिरित्यत आह स चेति । विशेषदर्शनादिति । परस्परव्यावर्त्तक धर्मदर्शनादित्यर्थः । सन्देहत्वात् परस्पराभेदसन्देहत्वादित्यर्थः । यद्यपि विषयान्तरसंचारेणापि सन्देहो निवर्त्तत इत्यनैकान्तिकम्, तथापि पार्थिवपरमाणूनामन्योन्याभेद सन्देहविषयत्वेनान्यान्यव्यावर्त्तकधर्मदर्शन निवर्त्य संशय विषयत्वं विशिष्यैव साधनीयम् । मतान्तरमाह ते चेति । स च निश्चय इति । अत्र विशेषदर्शनाधीन-
न्यायलीलावती प्रकाश विवृतिः
माशङ्कयाह परस्परा मेदेति । यद्यपीति । एवंसत्यपीति शेषः । तथापीति । यद्यप्येवमप्युत्पन्नविनष्टे क्कचिद्वयभिचार एव, तथापि नित्यत्वमपि हेतौ विशेषणमिति भावः । यथाश्रुतहेतोः संशयविपर्ययानुत्तरभाविप्रत्यक्ष व्यभिचारादन्यथा व्याचष्टे अत्रेति । ननु तथापि प्रत्यक्षविष-
- ↑ स्थाणुसंशयवत् - मा० पू० पाठः ।