पृष्ठम्:न्यायलीलावती.djvu/७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
न्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता



न्यायलीलावतीप्रकाशः

रूपम् , विधित्वेन प्रतीतेः । प्रतियोग्यनुपपत्तेश्चेति न युक्तम्, अस्माच्छब्दादयमर्थो बोद्धव्य इतीश्वरज्ञानरूपसङ्केतात्मकत्वात्तस्य । तच्च ज्ञानमनादिनिधनरूपं सर्वगोचरमेकमेव, तत्सम्बन्धश्चाऽथैर्वि षयत्वलक्षणः । अवधारणार्थो व्यवच्छेदः। तत्रैवकारस्य व्यवच्छेद. मात्र शक्तिः, विशेषणविशेष्यक्रियावाचकसमाभिव्याहारात् अयोगान्ययोगात्यन्तायोगव्यवच्छेदाश्च प्रतीयन्त इति व्युत्पत्तिरिति मतमयुक्तम् । उपस्थितपदार्थेष्वेव समभिव्याहारव्युत्पत्तेः संसर्गभेदस्य प्रतीतेः, न तु ततः पदार्थोपस्थितिरपि, प्रकृते च व्यवच्छेदमात्रात् प्रतियोगिमात्रलाभेऽप्ययोगान्ययोगात्यन्तायोगरूपप्रतियोगिविशेषा-

न्यायलीलावतीप्रकाशविवृतिः

 अस्मादिति । अन्यत्र यद्यपीश्वरेच्छा सङ्केत इत्युक्तं तथापि ज्ञानरूपत्वेऽप्यविरोध इत्याशयेनेदमुक्तम्। तत्सम्बन्धश्चेति । यद्यपि सम्बन्धिद्वयात्मकमेव विषयत्वमिति विषयाननुगमेनाननुगतमेव तथापि ज्ञानमात्रमेव सम्बन्धोऽत एवातीतानागतविषयेऽपि ज्ञानवैशिष्टयज्ञानम् , भातोऽयमिति व्यवहारस्तु ज्ञानध्वंसवैशिष्टयावगाही, यत्र त्वेकतरसत्त्वेऽपि न विशिष्टधीस्तत्रोभयसम्बन्धो यथाधिकरणध्वंसयोः, अतएव वौद्धाधिकारप्रकाशे ज्ञानमेव सम्बन्ध इत्युक्तम् । अस्तु वा सम्बन्धिद्वयात्मकविषयत्वं तथापि नाननुगमो विशिष्टधीजननयोग्यतया विषयस्याप्यननुगतत्वादिति दिक् ।

 ननु नियमपरत्वेऽपि विभागस्य व्यवच्छेदविकल्पोऽसङ्गत एवेत्यत आह-अवधारणार्थ इति। नियमशरीरान्तर्गत इत्यर्थः। ननु नान्ययोगव्यवच्छेदादौ शक्तिर्येनैवकारार्थत्वाक्षेपस्तत्र घटेत, किन्तु व्यवच्छेदमात्र एव, लाघवादित्यत आह-तत्रेति। प्रतियोगिमात्रेति । आक्षेपतः प्र. तियोगिमात्रलाभाभ्युपगमेऽपीत्यर्थः। यद्यपि विरोधिव्यवच्छेद एवकारार्थः, विरोधित्वं च विरोधित्वेनोपस्थितत्वमुपस्थितिश्च सर्वनामशब्द इव तटस्थोपलक्षणमिति सम्भवत्येव, तथापि शङ्खः पाण्डर एवेत्यत्र पाण्डरविरोधी नेतिवत् पार्थ एवेत्यत्रापि विरोधी नेतिप्रत्ययापत्तिः, शक्तौ तुल्यायां समभिव्याहारादन्वयनियमात् । न हि शक्तौ तुल्यायां क्वचिदविरोधप्रतियोगिकव्यवच्छेदः, क्वचिद्विरोध्याश्रयकव्यवच्छेदः प्रतीयते । शक्तिवैचित्र्ये तु वक्ष्यमाणक्रमादर एवास्तां कुतः