पृष्ठम्:न्यायलीलावती.djvu/७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
न्यायलीलावती


न्यायलीलावतीप्रकाशः

दिलक्षणपरीक्षयाऽधिकसंख्याव्यवच्छेदस्य विशेषलक्षणपरीक्षया च न्यूनसङ्खथाव्यवच्छेदस्य लब्धत्वात् ,तथापि पदार्थमुदिश्य द्रव्यादित्वविधानादुद्देश्यस्य व्याप्यत्वाद्विधेयस्य व्यापकत्वाद्विधेयस्य व्यापकत्वेन समानैव प्रतीतिरिति लोकव्युत्पत्तिसिद्धत्वान्न तत्र तात्पर्य कल्प्यम् । न च पदार्थत्वं नैकं सामान्यम्, येन विभागः स्यात्, किन्तु पदानामर्थो वाच्यस्तत्त्वम्, वाच्यत्वं च पदानामर्थानां च भेदाद्भिन्नमेवेति वाच्यम् । सर्वत्र पदार्थानुगतमतेरनुगतस्य तस्य सिद्धेः, नाऽयं पदार्थ इत्यभिधान एवैतत्पदार्थत्वापदार्थत्वाभ्यां व्याघातात् । तथापि न तद्भावरूपम्, अभावेऽपि वृत्तः, नाऽभाव-

न्यायलीलावतीप्रकाशविवृतिः

तिभावानात्र तात्पर्य कल्प्यमपितु शब्दस्वाभाव्यादेव व्यवच्छेदप्रतीति. रित्याह-तथापीति । औत्सर्गिके हि तात्पर्यमौत्सर्गिकम्, न तु कल्प्यम्, यथा गङ्गापदस्य पूरे। आपवादिके तु कल्प्यम् , यथा तस्यैव तीरे। तदिहो. क्तव्युत्पत्त्या शब्दस्वाभाव्येनौत्सर्गिकतया न तत्कल्प्यमिति भावः।एतेन पदार्था द्रव्यादय इति वाक्यं पदार्थत्वद्रव्यत्वाद्योः सामानाधिकरण्यं बोधयतु पदानां पदार्थसंसर्गमात्रबोधे सामर्थ्यात्, न तु नियतसामानाधिकरण्यं नियतत्वादीनामुपस्थापकाभावादिति परास्तम् । औत्सर्गिकतात्पर्यगम्यनियतसामानाधिकरण्यरूपविशेषलाभात् , न रपतिपदान्नररूपस्य नरपतेरिव । न च तथापि नियतत्वप्रकारिकार्धीन स्यादिति वाच्यम् , तदभावेऽपि क्षतेरभावात् , नरपतिपदान्नरत्वप्रकारकप्रतीतिविरहवत् । न च सामानाधिकरण्यमपि न प्रकारतया भातं किन्तुसंसर्गतयेति कथं तस्य विशेषपरत्वम् ? यदि चानुपस्थितमपि सामानाधिकरण्यं प्रतीतिप्रकारस्तदा नियतसामानाधिकरण्यमेव तथा स्वीक्रियतामिति वाच्यम् , तात्पर्यविशेषेण पदार्थ. विशेषभानवतू संसर्गविशेषभानस्याप्यविरोधात् । केचित्तु व्युत्पत्तिबललभ्यं नियतसामानाधिकरण्यं प्रकार एव नरपतिपदजन्य प्रतीतो नरत्ववत् प्रतीतिबलेन पदानुपस्थितस्यापि प्रकारत्वस्वीकारात् । अस्तु वा तत्र लक्षणा,प्रतीत्यनुरोधात्। अथवा व्युत्पनेस्तात्पर्यमात्रग्राहकत्वं तन्निर्वाहनानुमानादेवत्याहुः । न च द्रव्यत्वादेः प्रत्येकमव्यापकत्वात् कथं व्याप्यव्यापकभावप्रतीतिरिति वाच्यम् , अन्यतमत्वावच्छिन्नव्यापकताया एव व्युत्पत्तिबललभ्यत्वात् तजज्ञानं च संसर्गतया प्रकारतया वेति दिक्।