पृष्ठम्:न्यायलीलावती.djvu/७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०
न्यायलीलावती

षडेव पदार्था इति नियमव्यवच्छेद्यं प्रतीतं न वा अप्रतीतं


न्यायलीलावतीकण्ठाभरणम्

 वैशेषिकशास्त्रे पदार्थविभागमवधारणफलकमाक्षिपति-षडेवेति । अस्माच्छब्दादयर्थो बोद्धव्य इतीश्वरज्ञानेन तदिच्छया वा विषयविषयीभावलक्षणः सम्बन्धः पदार्थत्वम्, तश्च ज्ञानेच्छयोरेकैकत्वादेकमेव षोढ़ा भिद्यते विभागश्च न्यूनाधिकसङ्ख्याव्यवच्छेदफलकस्तेन षडेव पदार्था इति । अत एवकारस्य व्यवच्छेदमात्रमर्थोऽन्ययोगादिप्रतियोगिलाभस्तु समभिव्याहारविशेषाद् व्युत्पत्तिबलायातः शाब्दे त्वन्वयबोधे व्युत्पत्तिबलादपदार्थोऽपि भासत एवान्यथाऽयोगान्ययो. गात्यन्तयोगेषु शक्तित्रयकल्पनागौरवं स्यात् न न्यायश्चानेकार्थत्वमिति न्यायात्। तथा च समभिव्याहारस्तात्पर्य्यमात्रग्राहकः एवकारो नानार्थ इत्ययुक्तम् । तथा च षट्त्वस्य विशेष्यतावच्छेदकत्वं पदार्थत्वस्य विशेषणत्वमुररीकृत्य विशेष्यसङ्गतस्य चान्ययोगव्यवच्छेद=

न्यायलीलावतीप्रकाशः

नुपस्थितेः, किन्तु व्यवच्छेदत्रये शक्तिभेद एव, समभिव्याहारविशेषात्तत्र तात्पर्यविशेष उन्नीयते इति युक्तम् । तत्राऽन्ययोगव्यवच्छेदमवधारणार्थमाक्षिपति-षडेवेति । न च पदार्थमुद्दिश्य षट्त्वविधानात्तद्विशेषणं तत्समभिव्याहृतश्चैवकारोऽयोगव्यवच्छेदार्थ इत्य. न्ययोगव्यवच्छेदोऽपदार्थः, पदार्थश्चाऽयोगवच्छेदोऽग्रे वाच्य इति तेनैव गतार्थ इति वाच्यम् । यथा पदार्थे द्रव्यत्वादिवैशिष्टयमज्ञातं ज्ञाप्यत इति तस्य विधेयता, तथा द्रव्यादिष्वपि पदार्थत्वव्यवच्छेदस्य प्रतिपाद्यत्वात् व्यवच्छेद्यपदेन चाऽत्र व्यवच्छेदार्हे तदधिकरणमेव विवक्षितं न तु तत्कर्म, तस्य पदार्थत्वरूपस्य प्रमितत्वात् । तथा च द्रव्यादिषड्भिन्नस्याऽप्रमितेः तत्र पदार्थत्वं न निषेध्यम् , अधिकरणज्ञानं विना निषेधाज्ञानादित्यर्थः । निषेधः प्रतिषेधज्ञानमित्यर्थः। सप्तैवेत्येवकारस्य नाऽधिकसङ्खयाव्यवच्छेदोऽर्थः, अपि तु

न्यायलीलावतीप्रकाशविवृतिः

शब्दान्तरेऽपि सर्वनामसाधारण्यकल्पनेति भावः । किन्त्विति । न चायोगव्यवच्छेदादेः शक्यत्वे पदार्थैकदेशान्वयस्वीकारापत्तिः । चैत्रस्य मातेत्यत्रेव प्रकृतेऽपि तत्स्वीकारात् । न चायोगप्रतियोगिनः पाण्डरत्वस्य पाण्डरपदात् विशेषतयोपस्थितेः क. थमयोगान्वय इति वाच्यम्, पाण्डरत्वस्य लक्षणया स्वतन्त्रोपस्थि-