त्वमिति प्रतीतेश्च । न द्वितीयः,
षट्पदार्थातिरिक्त पदार्थास्वीकारात् । असत्येव सम्बन्धे आनुमानिकसम्बन्धबुद्धिजनकं
[१]
रूपमैववमिति चेत् । न । तथा सति सर्वत्रानुमानेऽनाश्वासापत्तेः । न तृतीयः, तद्व्यतिरेकेणैव घटादावपि तद्वद्धयमावात् । स्वव्यतिरेकेणापि घटस्यानुपलम्भो न तु सामान्यस्य
कस्यचिदिति चेत् । न । नित्यतैषा न सर्वगतता । ततो गोव्यक्तिभिन्नपिण्डेऽप्यसत्त्वेन न सर्वगतत्वमिति सर्वमनाकुलमिति ।
सामान्यं द्विविधं परमपरं च । तत्र परं सत्ता । नन्विद-
न्यायलीलावतीकण्ठाभरणम्
भेदात्, यथा कालस्याभेदेऽपि वर्त्तमानादीनां भेद इति । षट्पदार्थेति । सम्बन्धान्तरस्य परिगणितपदार्थेऽन्तर्भावादित्यर्थः । नन्वनुत्पन्नायां गवि तत्रास्य सामान्यं कथं समवेयादिति तद्देशादौ तत् सम्बन्धोऽनुमीयते, न तु तत्र परमार्थतः सम्बन्धो देशस्यापि गोत्वापचेरित्याहअसत्येवेति । तथासतीति । अनाभासमनुमानमसदपि यदि विषयकुर्य्यादित्यर्थः । तद्व्यतिरेकेणैवेति । तदितरोपलम्भकस्यालोकादेर्व्यतिरेकेणेत्यर्थः । नित्यतैषेति । यद्यपि महिषादौ न गोत्वव्यतिरेकप्रयुक्तस्तद्नुपलम्भः किन्तु सास्नादिव्यतिरेक प्रयुक्त इति व्यापकतैव पर्थ्यवस्येत, तथापि नाश्वे गोत्वमित्यबाधितप्रत्ययाद सर्वगतत्वमित्यर्थ इति भावः ।
न्यायलीलावतीप्रकाशः
त्वादित्यन्ये । घटेतरसहकारिविरहेऽनुपलम्भस्य घटादावपि तुल्यत्वादित्याह तव्घतिरेकेणैवेति ।
यदि प्रमाणग्राह्यत्वमेव सत्वं स्यात्तदा प्रमित्यविषयत्वदशायां
न्यायलीलावतीप्रकाशविवृतिः
ही 'ति न्यायेन विशेष्यवति विशिष्टामावोऽपि विशेषणविरहपर्यवसन्न एवेति पूर्वकल्प एव पर्यवसानमित्यरुच राह-अन्य इति । प्रमाणप्राह्यत्वमिति । प्रमाणजन्यज्ञानोपहितत्वमित्यर्थः । तेन नेश्वरज्ञानमादाय
- ↑ जनकत्वरूप - इति सु० पु० पाठः ।