सामग्री पर जाएँ

पृष्ठम्:न्यायलीलावती.djvu/७७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६९२
न्यायलीलावती



मसम्बद्धं, प्रमाणग्रहणयोग्यतैव सत्ता प्रमाणग्रहणयोग्यता वस्तूनां स्वरूपं तत् व्यावृत्तं चेदनुगतव्यवहार सिद्धिः, अनुवृत्तं चेत्सैव सत्तेति चेन्न । व्यावृत्तमेव हि स्वरूपं सत्ता, अनुवृत्तव्यवहारस्तु प्रमितत्वोपाध्यालम्बनः सच्छन्दप्रवृत्तिरपि तत्रैव । यद्वा सामान्य विशेषसमवाय [] व्यावृत्तेष्वेव रूपेषु सदित्यनुगतव्यवहारोऽस्तु ।

 अत्रोच्यते । प्रमितत्वेन तुल्येषु पदार्थेषु भावाभावव्यवहार-


न्यायलीलावतीकण्ठाभरणम्

 रं व्यापकमपरं व्याप्यम् । व्याप्यसत्तामाक्षिपति प्रमाणेति । अतएव शशविषाणादावसत्त्वव्यवहार इति भावः । सच्छब्दप्रवृत्तिरपीति । सत्पदसंकेतोऽपि प्रमितत्वोपाधिनिबन्धनो न तु सत्तानिबन्धन इत्यर्थः । यद्वा यत्रैव वैशेषिकानामर्थपदं पारिभाषिकं तासु व्यक्तिषु सदित्यनुगतव्यवहार इत्याह यद्वेति ।

 प्रमितत्वेनेति । भावाभावव्यवहार वैचित्र्येणान्यथानुपपत्या भावमात्रवृत्तिः कश्चिद्धर्म्मोऽभ्युपगम्यत एवेत्यर्थः । ननु तथापि सत्ता

न्यायला लावतीप्रकाशः

सतोप्यसत्वं स्यादित्यत उक्तं योग्यतेति । प्रमितत्वेति । परम्परासम्बभ्रमत्वजातिनिबन्धन इत्यर्थः । तत्रैवेति । प्रमितत्वोपाधिविशिष्ट इत्यर्थः । यत्रापि न सत्तासमवायस्तत्रापि तन्निबन्धः सद्व्यवहार इत्यावश्यकत्वात् तदेव निमित्तमित्याह यद्वेति ।

 सत्तास्वीकारे तु न भावाभावव्यवहारवैचित्र्यानुपपत्तिरित्या भावव्यवहारेति । भावस्यैवेति । अभावव्यावृत्तधर्मविशेषस्यैवेत्यर्थः । सत्ता हि द्रब्यगुणकर्मसु समवायेन वर्त्तते सामान्यविशेषयोश्च कार्यसमवायेन,

न्याय लीलावती प्रकाश विवृतिः

व्यक्त्यसम्भवः । श्रमत्वजातीति । अनुभवत्वजातीत्यर्थः । तन्निबन्धन इति । व्यावृत्तस्वरूपमात्रनिबन्धन इत्यर्थः । ननु सत्ताया भावत्वव्यवहारोपपादकत्वे सामान्यादौ तद्व्यवहारो न स्यादित्यत आह सत्ता होति ।


  1. समवायवद्व्यावृत्तेषु-मु० पु० पाठः ।