प्रतीतिरिति चेत् । न । सम्बन्धियोग्यताया एव तत्प्रयोजकत्वात्, त्र्प्रन्यथा पवनादावपि रूपसम्भेदापत्तेः, नाश्वे गो-
न्यायलीलावतीकण्टाभरणम्
घटादावपि इयं सर्वगतता स्यात् । सम्बन्धिद्वयेति । समवायः सम्बन्धिद्वये गृह्यमाणे गृह्यत एवेत्यर्थः । अन्यथेति । यदि समवाये सत्यपि तद्विशिष्टप्रतीतिः तत्रेत्युपेयमित्यर्थः । नाइवे गोत्वमिति । तदत्यन्ताभाव एव तत्र गृह्यत इति कथं तदपि स्यादित्यर्थः । ननु समवायस्यैक्थे कथमेवं स्यात्, नहि स्पर्शसमवायादन्यो रूपसमवायो, न वा अश्वत्वसमवायादन्यो गोत्वसमवाय इति चेन्न । एकोऽपि समवायो निरूपकभेदादू भिन्नः कालवत, नहि य एव रूपनिरूपितः समवायः स एव स्पर्शनिरूपितः, अन्यथा वायौ रूपसमवायो नास्तीति प्रतीतिर्न स्यात् । रूपं नास्तीति तत्प्रतीतेविर्षय इति चेत् । न | समवाये नञ्स म्बन्धात्, अन्यथा रूप नष्टमित्यस्य रूपसमवायो नष्ट इति कल्पना स्यात्, तथाच जितं मीमांसकैः । तथाच विशेष्याभेदेऽपि विशिष्ट-
न्यायलीलावतीप्रकाशः
केत्यर्थः । सम्बन्धिद्वयेति । जातिव्यक्तियोग्यता यथा गोत्वगोव्यक्त्यो स्तथा गोत्वाश्वव्यक्त्योरपति तत्रापि गौगितप्रतीत्यापत्तेरित्यर्थः । तत्प्रयोजकत्वात् - सामान्यप्रतीतिप्रयोजकत्वादित्यर्थः । यदि च यत्राश्र याश्रितस्वरूपमेव योग्यता तत्रापि तदाश्रितानुपलम्भः कथञ्चिद्वा व्यस्तत्राह अन्यथेति । ननु समवायस्यैकत्वे कथं रूपवन्नीरूपव्यवस्था ? न च घटेन सह रूपसम्बन्धरूपत्वं समवायस्य न वाय्वादिनेति वा व्यम्, रूपसम्बन्धरूपत्वं हि समवायस्य यदि स्वरूपमेव तदा रससम्बन्धरूपत्वं न स्यात्, तयोर्विरोधात् अन्यश्च दुर्वचम् । उच्यते । वायौ रूपसमवायेऽपि रूपस्यात्यन्ताभावोस्ति न घटे । कथमेवम् ? अधि करणस्वभावाद अबाधित रूपवनीरूपप्रततिश्च । वायौ रूपविशिष्टस्य समवायस्याभावो भवत्येव, विशेषणाभावे विशिष्टाभावस्यावश्यक
न्यायलीलावती प्रकाशविवृतिः
ननु समवायस्येति । तथाच नाश्वे गोत्वमित्यपि प्रतीतिरयुक्कैवेति भावः । वायौ रूपेति । तथाच न समवायमात्रं विशिष्टप्रतीतिनियामकमपि तु विशेषणतापि, सा च प्रतीतिबलकल्पनीयेति भावः । 'सविशेषणे