सामग्री पर जाएँ

पृष्ठम्:न्यायलीलावती.djvu/७६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६८८
न्यायलीलावती


कार: । आकारस्य च कि साधारण्यं [] साधारणस्वभावत्वं साधारणसंसर्गित्वं वा ? आधे ज्ञानस्थैर्यप्रसङ्गः । नेतरः । जातिस्वीकारापत्तेः । अविपर्यस्तप्रतीतिविषयत्वेन [] वस्तुमत्त्वप्रतीता- वर्थक्रिया विरहस्या हेतुत्वात् । स्वमतीतिलक्षणायां वा अर्थक्रि यायां व्यक्त्यन्तरेऽसंसर्गमाश्रित्य व्यतिरेकस्थितौ हेतोरसिद्धेः ।


न्यायलीलावतीकण्ठाभरणम्

ज्ञानं सर्वव्यक्तिसाधारणमिति वाच्यं, तथाचालीतानागतगोव्यक्त्तिष्वप्येकमेव ज्ञानं स्यादित्यर्थः । क्रियाविषयत्वेन वस्तुत्वं न त्वर्थ क्रियाजनकत्वेनेत्यनुमानमपि लोपाधीत्यर्थः | विषयतया - स्वगोचरसाक्षात्कारजनकत्वेन । हेतोरसिद्धिमाह स्वप्रतीतीति । नन्वन्वयव्यतिरेकगम्यं कारणत्वं, व्यतिरेकश्च जातेर्व्यापकत्वान्नित्यत्वाच्च नास्तीत्यत आह व्यक्त्यन्तर इति । महिषादौ गोत्वव्यतिरेकात्तत्प्रतीतिव्यतिरेक इत्यर्थः । ननु व्यापकत्वात् महिषादावपि तदसंसर्गोऽनुपपन्न

न्यायलीलावतीप्रकाशः

स्यापि स्थैर्यप्रसङ्गादविनाशित्वप्रलङ्गादित्यर्थः । वस्तुतो ज्ञानानेष्ठसादृश्यमध्ये कधर्मनिर्वाह्य, स च विषयवृत्तिरेव धर्म इत्यर्थः । यदर्थक्रियायामित्यनुमानं दूषयति अविपर्यस्तीत । प्रत्यक्षबाधितो हेतुरित्यर्थ: । ननु हानाद्यभावेऽपि ज्ञानादिलक्षणक्रियास्तीत्याह स्वप्रतीतीति । ननु स्वप्रतीतावपि जातेने कारणत्वमन्वयव्यतिरेकाभावादित्यत आह व्यक्त्यन्तर इति । यद्यपि जातेर्व्यतिरेको नास्ति तथापि यस्यां व्यक्तौ जातिरस्ति तस्यां प्रतीतिं जनयति यस्यां च

न्यायलीलावती प्रकाशविवृतिः

तथापि इत्यत आहेत्यस्य इत्यतोप्पाहत्यर्थः । तथाचोभयखण्डनपरमेव मूलमिति भावः । अक्षणिकताया मिष्टापत्तेराह - अविनाशित्वेति । ननु ज्ञानत्वने ज्ञानस्य विनाशित्वेष्याकारतयाऽविनाशित्वं स्वादतोSपरितोषादाह वस्तुत इति । स चेति । गोत्वविषयत्वमेव सादृश्यमिति भावः । व्यतिरेको नास्ति स्वरूपसम्बन्धावच्छिन्नः कालोपाधौ दि-


  1. साधारण्यं च किं प्रा०पू०पाठः ।
  2. विषयतयेति अत्र मिश्रसम्मतो पाठो बोव्यः ।