ऽवभासते
असत्यभेदप्रतिभासे शब्दव्यवहारानुपपत्तिरिति
चेन्न । अतब्धावृत्त्या वा आकारसाधारण्येन वा तदुपपत्तेः । यदर्थक्रियायां नोपयुज्यते न तत्लव्यवहारयोग्यम् यथा गगनकमलम् | नोपयुज्यते च सामान्यमर्थक्रियायामतो न सामान्य वस्तु
भूतम् इति ।
अत्रोच्यते । अतब्धावृत्तौ कस्तदर्थ ? एकं स्वलक्षणं एकजातीयं वा ? आद्येऽसाधारण्यम् । अन्यत्र जातिस्वी-
न्यायलीलावतीकण्ठाभरणम्
हमन्तरेण शक्तिग्रह इत्यत आह असतीति । अभेदप्रतिभास इति । स्वधर्म्मवत्तत्प्रतिभास इत्यर्थः । अतद्वचावृत्त्येति । अगोध्यावृत्तिरूपैकधर्म्मवत्तयेत्यर्थः । आकारलाधारण्येन -गाकारानुभवजनकेन सर्वगोलक्षणसाधारण्येन । जातीनामसत्त्वं लाधयति यदर्थेकति । यन्न जनकं न तत् सद्व्यवहारविषय इत्यर्थः । न च सामान्यजन्यं किञ्चिदस्तीति भावः ।
आध इति । आकाराकारिणोरभेदादेकमेव गवाकाव्धरानुगतं
न्यायलीलावतप्रकाशः
रूप गृहीतुमशक्यत्वात शक्यतावच्छेदको धर्मः स्वीकर्त्तव्य इत्याह असत्यभेदेति । अतवृत्त्या अगोव्यावृत्येत्यर्थः । आकारसाधारण्येनेति । साधारण्यं साइइयं तच्चैकशब्द प्रयोजनकत्वमित्यर्थः । यदर्थक्रियायायामिति । हानादावित्यर्थः । यद्यपि सव्द्यवहारयोग्यत्वमेवार्थक्रियोपयोग इति साध्या वैशिष्ट्यं, तथापि यदर्थक्रवायां नोपयुज्यते इत्यस्य यदक्रियोपयोगित्वेन न प्रतीयत इत्यर्थः ।
ननु साधारणाकारज्ञानविषयत्वमेव तदर्थो भविष्यतीत्यत आह आकरस्येति । आद्य इति । साधारणाकारस्य ज्ञानाभिन्नतया ज्ञान-
न्यायलीलावतीप्रकाशविकृतिः
ति । यद्यप्येकं प्रवृत्तिनिमित्तं विनैकशब्दप्रयोगजनकत्वमध्यसम्भवि, तथापि सास्नादिमत्त्वमेवादाय ज्ञानाकारस्य तथात्वमिति भावः । ननु साधारणोते । यद्यप्याकारलाधारण्येन वेति द्वितीयकल्पदूषणपरमिदं मूलमिति प्रथमपक्षखण्डनमसङ्गतत्वेनैव तदवतारणमयुक्तम्,