सामग्री पर जाएँ

पृष्ठम्:न्यायलीलावती.djvu/७६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६७६
त्यायलीलावती


पत्तेः । व्यक्तिमात्रस्य वा गौरिति मतिगोचरत्वं गोत्ववद्रव्यक्त्तेर्वा? आधं त्र्प्रतिप्रप्तक्त्तेः अन्यत्र जातिस्वीकार इति चेन्न । व्यक्तिविशेषस्य तत्त्वात् । त्र्प्रन्यथा व्यक्तिमात्रस्य गोव्यक्तिमात्रस्य गोत्वव्यञ्जकत्वं गोव्यक्तेर्वेति प्रत्यवस्थानस्य सम्भवात् । न द्वितीयतृतीयौ [१] । न ह्येका गोव्यक्तिरेक धर्मवती वेति प्रतीतिः, किन्तु यथैकस्थां गवि गौरित्यवभासस्तथा व्यक्तयन्तरेऽपीत्येकानेकविमतिगोचर एवाकारो-


न्यायलीलावतीकण्ठाभरणम्

स्वाभाव्यमित्यनुभवस्तदधीन एवेत्यर्थः । गोस्वाभाव्यं व्यक्तिमात्रस्य गोव्यक्त्तेर्वेनि विकल्प्य दूषयति व्यक्तिमात्रस्येति व्यक्तिविशेषस्येति । काश्विदेव व्यक्तयस्तथा न तु सर्वा येनातिप्रसक्तिः स्यादित्यर्थः । अन्यथा गोत्वव्यञ्जकत्वेSप्ययं विकल्पः समान इत्याह अन्यथेति । एकानेकेति । गवाकारानुगत प्रत्यस्यैकोऽनेको वा विषय इत्यत्र विमतिरेवातोऽनुगतप्रत्ययान्न जातिरित्यर्थ: । नन्वनन्तासु व्यक्तिषु कथमेकधर्माग्र-

न्यायलीलावतीप्रकाशः

को धर्मः सास्नादिमत्त्वमेव किं नावच्छिन्द्यादिति भावः । एकगोस्वभा ववदिति पाठं एकस्थाः गोव्यकः स्वोऽलाधारणो धर्मः सास्नादिस्तद्वदित्यर्थः । भावमविद्वान् शङ्कते व्यक्तिमात्रस्येति । उक्ताभिप्रायेण परिहरति व्यक्तिविशेषस्येति । न चानन्त्यव्यभिचाराभ्यां व्यक्तिषु सङ्केत-

न्यायलीलावतप्रकाशविवृतिः

रणत्वम् । एतञ्चोपलक्षणं ज्ञानवृत्तिव्यवहारकारणत्वमित्यपि द्रष्टव्यम् । तत्र प्रथमे गोत्वस्य तत्र गोत्वेऽवृत्तेरिति हेतुः, अन्यत्र तज्ज्ञानावृत्तित्वादिति, गोत्वस्येत्यनुषञ्जनीयमिति । यद्यपि पूर्वत्र ज्ञानयोः साहश्यघटकत्वे गोत्वसिद्धिरित्याशङ्का न समाहिता, तथापि साद्दक्ष्यमपि सास्नादिमद्विषयक मेवेत्युक्तकल्पमेवेति भावः । स्वोऽसाधारणो धर्म इति । इदं च एकव्यक्त्यासौ स्वभाववदिति मूलपाठपक्षे योजनम् । सास्नादिमत्व परत्वव्याख्यायां नातिप्रसङ्गोऽत आह भावमिति। तच्चैके


  1. ↑ नापरौ इति प्रा० पु० पाठः ।