व्यापकस्य कोऽसंसर्गार्थ, असंसर्गिणो को व्यास्कार्थ इति
चेन्न । वैशेषिकनये तस्य पिण्डमात्रगतत्वात । प्रलये सर्वपिण्डानां समुच्छेदे सामान्यमप्युच्छिद्येतेति चेन्न। (सर्व) [१]सम्बन्धिविगणे ऽपि) स्वसत्ताव्यवस्थितेः । इयमेवहि तर्हि सर्वगततेति चेत् ।
न । तस्याः स्वसम्बन्विसत्तामाश्रित्य प्रवृत्ते, अन्यथा नित्यतैव
सर्वगततेति महत्पाण्डित्यम् । सर्वगतत्वं च सर्वत्र समवायो वा,
सम्बन्धान्तरं वा ? तदितरोपलम्भकहानिप्रयुक्तोपलक्षितव्यतिरेकित्वं वा ? नायः, सर्वत्राप्रतीते: । तव्घञ्जकसहकारिविरहाद-
न्याय लीलावतीकण्ठा भरणम्
इत्याह व्यापकस्येति । वैशेषिकनय इति । गोत्वहम लमवायः सास्नादिमतीष्वेव व्यक्तिषु न त्वम्यत्रेत्यर्थः । अन्यन्ते तु सर्वत्र गोत्वसमवायसत्वेऽपि गोरखात्यन्तामावनिबन्धनो महिषाददौ तदव्यवहारः, न त्वत्यन्ताभावाप्रतियोगित्वमेव व्यापकत्वमिति भावः । ननु यदि पिण्डेष्वेव वर्त्तते तदाऽऽश्रयाभावात् प्रत्ययो न स्वादित्यानित्यत्वं पर्थ्यवस्येदित्याह प्रलय इति । इयमेवेति । सार्वदिकी स्वरूपसत्तैवेत्यर्थः । तस्या इति । यदि सर्वत्रास्या: लम्बन्धः स्यात्तदा सर्वगतता स्यादित्यर्थः । सार्वदिकीति हि सत्ता नित्यता सा तु सर्वत्र गतेस्याह अन्यथेति । तदितरेति । व्यतिरेक प्रयुक्तोपलब्धिर्व्यतिरेकरहितत्वमित्यर्थः । अन्यथा
न्यायलीलावती प्रकाशः
नास्ति तस्यां न जनयति इत्येवंरूपान्वयव्यतिरेकाभ्यां जातेः कारणत्वमित्यर्थः । पिण्डमात्रेति । पिण्डमात्रं सास्नादिमद्रूपं तद्गतत्वाद्गो त्वस्येत्यर्थः । सर्वसम्बन्धीति । आश्रयाशेषव्यक्तिनाशेऽपि स्वरूपसत्तायाः सद्भावादित्यर्थः । इयमेवेति । स्वरूपसत्तैवेत्यर्थः । तस्याः सर्वगतताया इत्यर्थः । तदितरेति । सामान्यस्याप्रतीतिस्तदितर सहकार्यभावव्यावृत्तेत्यर्थः । सर्वत्रेति । सामान्यस्येति शेषः । तद्व्यञ्जकेति । सामान्यव्यञ्ज
न्यायलीलावतीप्रकाशविकृतिः
गुपाधौ वेति शेषः । सर्वव्याक्तेपरत्वे विरोधोऽत आह सास्नादिमदिति ।
- ↑ ( ) एतच्चिह्नान्तर्गतः पाठो प्रा०पु० नास्ति किन्तु प्रकाशकर्तुरभिमतः ।