सामग्री पर जाएँ

पृष्ठम्:न्यायलीलावती.djvu/७५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६७७
व्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भालिता


चापरिमितत्वम् | अपृथक्त्वं चैत [१] दवधिनिरूप्यपृथक्त्वाभावसम्बन्धित्वम् । दयादयस्त्विच्छाभेदा एव । निरिन्द्रियदेशसम्बन्ध एव हि मनसो निद्रेति परत्वापरत्वसङ्कर एव च मध्यता । गुरुत्वादिबन्दीग्रहस्तु तत्र तत्रोन्मूलित इत्यलम् । इति गुणानयेमः ॥

इति श्रीन्यायलीलावत्यां गुण विचार: [२] ।


न्यायलीलावतीकण्टाभरणम्

सत्त्वादिति भावः । एवमग्रेऽपि । परत्वापरत्वसंकर इति । परत्वाधिकरणत्वमेव मध्यत्वमित्यर्थः । गुणनियम इति । गुणानां न्यूनाधिकसंख्याव्यवच्छेदनियम इत्यर्थः ॥

इति श्रीमहामहोपाध्यायसन्मिश्रश्रीभवनाथात्मज महामहोपाध्यायसन्मिश्र-

श्रीशंकरकृते लीलावतीकण्ठाभरण गुणपदार्थः समाप्तः ।


न्यायलीलावतीप्रकाशः

 परत्वापरत्वसंकर इति । एतच्चोपलक्षणम् | तुल्य संयुक्त संयोगाधिकरणेऽपि मध्यव्यवहारदर्शनात् । गुणनियमः शङ्कितगुणानामाधिक्यनिराकरणमित्यर्थः ॥

इति श्रीवर्धमानोपाध्यायविरचित न्यायलीलावतीप्रकाशे गुणपदर्थः ॥


न्यायलीलावतीप्रकाश विवृतिः

व्यमाणमुत्तरापेक्षया उत्तरेण च निरूप्यमाणं दक्षिणापेक्षया मध्यमपरमित्यपरद्वयसंकर एव मध्यतेति भावः । इदमप्युपलक्षणम्, भिन्नदिगवस्थितयोर्यत्रै कस्मिन्परत्वद्वयमुत्पद्यते तत्रापि मध्यत्वव्यवहारात्, तदुक्तं गुणप्रकाशे-'परत्वमेव मध्यत्वमिति' ।

गुणपदार्थः ॥



  1. ↑ चैतावदवधीति मु० पु० पाठः ।
  2. ↑ गुणपदार्थोपवर्णनम् इति प्रा० पु० पाठः ।