कथं पुनः कर्माणि पञ्चैव ? भ्रमणरेचनादेरपि सच्चात् [१] ।
तत्रान्यथासिद्धायु क्षेपणादेरपि तथात्वप्रसङ्गात् । गमनं च न
चलनातिरेकि । ततो न्यूनातिरेकाभ्यां [२] विभागोऽनुपपन्न एवेति
न्यायलीलावतीकण्ठाभरणम्
उत्क्षेपणापक्षेपणाकुञ्चनप्रसारणगमनाने पंचैव कर्माणीत्याक्षिपति कथमिति | रेवनादावित्यादिपदान्निष्क्रमण मंत्रानो ज्वलननमनोन्न मनसंग्रहः | अन्यथासिद्धाविति । गमन एव तेपामन्तर्भाव इति यदरिय थंः । गमनं चेति । कर्म्ममात्रलेव गमनं न च तांद्वेशेष इत्यर्थ: । न्यूना धिकत्वाभ्यामिति । गमनादेः पृथगनभिधानाद्विभागस्य न्यूनत्वं गमनस्य
न्यायलीलावतीप्रकाशः
उत्क्षेपणादीनि पञ्च कमणीति पञ्चविभागमाक्षिपति कथमिति । रेचनादेरित्यादिपदेन निष्क्रमणप्रवशनस्पन्दनो र्ध्वज्वलन्न मनोनमनसङ्ग्रहः । भ्रमणत्वादिबुद्धेरनन्यथालिद्धत्वादित्यर्थः । ननु संयोगवि शेषजनकत्वेनोपाधिना तदुपपत्तिरित्यत आह तत्रान्यथेति । उत्क्षेपणा दिबुद्धेरपि तत एवान्यथासिद्धेरित्यर्थः । किञ्च चलनमात्र एव गच्छताति प्रतीतर्गमनत्वस्थ कर्मत्वान्तरजातित्वाभावात् कर्मणः पञ्चत्वा भावेन न्यूनत्वाद्विभागो न युक्त इत्याह गमनं चेति । विशेषादिति । उत्क्षे पणत्वादिबुद्धिभ्रमणत्वादिबुद्ध्योर्जातितदभावव्यवस्थापकत्वलक्षणादित्यर्थः । तमेव स्फुटयति तथाहीति । ननु भ्रमणादीनां जातिरूपत्वेऽपि न विभागव्याघातः भ्रमणत्वादीनां गमनविशेषत्वस्याये व्युत्पादनीयत्वात्, गमनभित्वे चोपाधिरूपत्वेऽपि उत्क्षेपणादिपञ्चकानन्तर्भावात् विभागव्याघातस्तुल्यः, तस्माद्भ्रमणत्वादे: स्वरूपाख्यानपरोऽयं
न्यायलीलावतीप्रकाश विवृतिः
अनुक्तोपालम्भमाशंक्याह उत्क्षेपणादीनीति । जातितदभावेति । जातिव्य वस्थापकत्वतद्भावलक्षणादित्यर्थः । संप्रदायविद इत्यस्वरसविभावनम् । तद्बीजन्तु उत्क्षेपणादिचतुष्टयं तावत् परस्परविरुद्ध धर्मवत्वमनुभवसिद्धं तदन्यकर्मत्वलक्षणगमनत्वमपि तद्विरुद्धमेवेति परस्परविरुद्धान पंचोपाधीनादाय मूलकृता कर्माणि गणितानि । एवञ्च भ्रमणत्वादीना