भिरारब्धपटे काठिन्योपलम्भात् । संयोगभेद एवायं स्पर्शमेदो वा नापि शैक्ष्यम् अस्निग्धसामानाधिकरण्येनानुभवात्, आर्द्रताहीने शुष्कतावत् । नापि क्रमादिकम् उपाधिद्वारेणैवान्यथासिद्धेः । परत्वापरत्वादौ तु विशेषदर्शनात् ।
वामत्वं च पूर्वदिगभिमुखावस्थितस्योदीचीदिक् संवन्धित्वम् । दक्षिणदिक्संबन्धित्वं च दक्षिणत्वम् । एवं दिगन्तराभिमुखेऽपि वाच्यम् । देहदेशविशेष एव वामत्वम् । मुखापेक्षया ऋजुदेशव्यवस्थितालोकादि संयोगित्वमग्रत्वम् पृष्ठव्यवहितालोकमण्डलावच्छेदश्च पश्चात्त्वम् । असंख्यात्वं चाअशक्यज्ञानसंख्यावच्छिन्नत्वम् । अशक्यज्ञानहस्तवितस्त्याद्यवच्छेदपरिमाणयोगित्वं
न्यायलीलावतीकण्ठाभरणम्
कथं तदुत्पद्यतामिति भावः । क्वचित् संयोगभेद एव काठिन्यमतो चाक्षुषत्वमपि नानुपपन्नमित्याह संयोगेति । सुखासकादौ जठरे स्पर्शभेदइत्याह स्पर्शेति । बिशेषदर्शनादिति । संयुक्त संयोगाल्पीयस्त्वविषयापेक्षावुद्धेरेवापरत्वस्योत्पत्तिदर्शनान्न परत्वाभाव इत्यर्थः ।
ननु दिगन्तराभिमुख स्यापि दिगन्तरावच्छिन्नेऽपि हस्तादौ वामत्वव्यवहारः किन्निबन्धन इत्यत आह देहेति । एवं दक्षिणत्वमपि वाच्यमिति । अशक्येति । निपुणे निरूपणे तत्रापि संख्यातत्त्वबुद्धेः
न्यायलीलावतीप्रकाशः
योगभेदः क्वचित्स्पर्शभेदः काठिन्यमिति न चाक्षुषत्वविरोध इत्याहृ' संयोगभेद इति । अस्निग्धेति । स्नेहाभाव एव रौश्यं लोके रूक्षपदस्यास्निग्धपद पर्यायत्वदर्शनादित्यर्थः । उपाधिद्वारेति । उपाधित्वं च क्रमा. दीनामुपपादितमिति भावः । विशेषदर्शनादिति । परत्ववादपरत्वस्यापि मानसिद्धत्वादित्यर्थः ।
न्यायलीलावतीप्रकाशविवृतिः
दिति । ननु यत्र स्वपूर्वस्यां दक्षिणोत्तरक्रमेण नानावस्तूनि तत्र परत्वाद्यभावात्कथं मध्यव्यवहारोऽत आह एतक्ष्चेति । तत्र दक्षिणेन निरू-