सामग्री पर जाएँ

पृष्ठम्:न्यायलीलावती.djvu/७४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६६७
न्यायलीलावतीकण्ठाभरण-सर्विवृतिप्रकाशोद्भासिता


स्मृत्युपनीतसंख्यादिसंभेदग्रह: इन्द्रियस्य तद्ग्राहकत्वेनायोग्यत्वात् []। अन्यथ। जम्बीरवीजपुरदौ रसाद्रूपानुमानभङ्गप्रसङ्गात् । तत्कथमम्बरगुण: शब्द इति चेन्न

 साक्षादिन्द्रिय सम्बन्धवेद्यत्वं हि यावत्मसक्तपारिशेष्याद्वा नि-

न्यायलीलावतीकण्ठाभरणम्

रोप: स्यादित्यत आह नचेति । सम्भेदः-स्मृतसंख्या दिवैशिष्ट्यम् । इन्द्रियस्येति । आरोपोऽपि श्रोत्रेण न सम्भवति आरोप्यसंख्यादिग्रहे तस्यासामर्थ्यात् । नन्वयोग्येनाप्युपनीतं गृहात पवेत्यत आह-अन्यथेति । रसनेन्द्रियेणैव चक्षुरुपनीत रूपं तत्र गृह्येतेति क्वानुमानावकाश इत्यर्थः ।

 यावदिति । द्रव्यं भवत् स्पर्शवन्निम्पर्श वा स्यात? आद्ये त्वगिन्द्रियवे

न्यायलीलावतीप्रकाशः

यान्तरेण । अप्रतीताविति । अननुभूतावित्यर्थः । इन्द्रियस्येति । तदग्राहकत्वेन - उपनीताग्राहक त्वनेत्यर्थः । इन्द्रियस्थ इन्द्रियान्तराग्राह्यगुणग्राहकत्वनियमादिति भावः । अन्यथेति । इमृत्युपनीतस्य रूपस्य रहनेन ग्रहणादित्यर्थः ।

यद्यपि संयोगलमवायान्यतरवेद्यत्वं न व्याप्यतावच्छेतकं गौरवात्, अश्रावणत्वं चोपाधिः, तथापि स्फुटत्वादेतदुपेक्ष्यान्यदाह साक्षादिन्द्रियेति । शब्दो न गुणाकर्मादिरूप इति प्रतिषेधे द्रव्य-

न्यायलीलावती प्रकाशविवतिः

प्रत्यभिज्ञानं तत्र व्यभिचार इति वाच्यम् । निरवयवेन्द्रियजन्यस्वजन्य साक्षात्कारोत्तरभाविस्वजन्य प्रत्यभिज्ञानविषयत्वस्य हेतुत्वात्यथाश्रुतेनैवोपपत्तौ पदान्तरप्रक्षेपगौरवेन शब्दक्षणिकत्ववादिनां हेतोरसिद्ध्या चानुशयमाविष्करोत्वन्य इति । स्मृतेरग्रे शङ्कनीयत्वादाह अननुभूताविति । ननु तदग्राह केनेत्येवासिद्धं स्मृत्युपनीतस्य ग्रहसम्भवादत आह इन्द्रियान्तरेति । इन्द्रियान्तरमात्र योग्यग्राहकत्वनियमादित्यर्थस्तेन सत्तामादाय न नियमभङ्गः । मूले चात्र इन्द्रियस्येति पाठे चक्षुस्त्वगम्य बहिरिन्द्रियस्येति बोध्यम् । श्रोत्रस्येति पाठः सुगम एव ।

 साक्षात्सम्बन्धवेद्यत्वमेव हेतुरस्त्वित्यरुचेराह अश्रावणत्वं चेति । तुल्ये-


  1. श्रोत्रस्य तद्ग्राहकत्वेनायोग्यत्वात् इति पाठान्तरम् ।