सामग्री पर जाएँ

पृष्ठम्:न्यायलीलावती.djvu/७४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६६८
न्यायलीलावती


क्ष्चीयते एकदेशपारिशेण्याद्वा ? नाद्यः । तत एगद्रव्यत्व निरूपणे (न) लिङ्गग्राहकमानबाधात् । नेतरः । कर्मत्वादेरप्रतिषेधे संयुक्तपमवायादिवेद्यत्वशङ्कायां हेतोरसिद्धतापत्तिः । श्रोत्रं च न नित्द्रव्यग्राहकम् त्रयोगवाहिरिन्द्रियत्वात् चक्षुर्वदिति सत्प्रतिपक्ष द्वितीयानुमानम् []। यदि तु नित्यद्रव्यग्राहकं स्यान्न व्यापकद्रव्यग्राहकम्, अजसंयोगाभावात् । नाणुग्राहकम्, अनामतीन्द्रियत्वात् । नाणुविभुद्रव्यातिरिक्तद्रव्यग्राहकम् निरवयवग्राहक-


न्यायलीलावतकण्ठाभरणम्

द्यत्वापात्तिरन्त्येऽतीन्द्रियत्वापत्तेरिति परिशेषादद्रव्यत्वसिद्धौ बाध इ त्यर्थः । लिङ्गप्राहकेति । साक्षात्सम्बन्धः संयोगस्तावन्न भवति पारिशेष्येण शब्दस्याद्रव्यत्वसिद्धेस्तथाच समवायो वक्तव्यो विभुनि पत्र द्रव्ये द्रव्यं न समवैतीति लिङ्गग्राहकमानबाध इत्यर्थः । नित्य०पदं चक्षुरादौ व्यभिचारवारणार्थम् । द्रव्यग्राहकत्वे बाधकान्तरमाह यदि स्विति । व्यापकद्रव्यग्राहकं वा स्यात् अणुद्रव्यग्राहकं वा अवयवि ग्राहकं वा ? आद्य आह-व्यापकेति । श्रोत्रशब्दयोरुभयोरपि व्यापकत्वादन्यतरकम्मोदिजन्यसंयोगबाधेऽजः स्वीकार्य, ल च न सम्भवतीत्युक्तमेवेत्यर्थः । द्वि तीय आह नाण्विति । तृतीय आह नाणुविभुद्रव्येति । निरवयवेन्द्रियस्य निरवयवद्रव्यग्राहकता दृष्टा तदनुपपत्तिः स्यात, निरवयन्द्रियस्यापि नि-

न्यायलीलावतीप्रकाशः

त्वस्यापि प्रतिषेधस्तुल्यन्यायतयेत्याह तत एवेति । द्रव्यग्राहकत्वप्रति षेधे व्यभिचारः स्यादित्यत उक्तं नित्यद्रव्येति । सत्प्रतिपक्षमित्युपलक्ष णम्, त्वक्चक्षुरन्यबहिरिन्द्रियान्यत्वं चोपाधिः । ननु नित्यद्रव्यग्राहकत्वनिषेधेपि न द्रव्यग्राहकत्वनिषेध इत्यत आह यदि त्विति । प्रत्यभि

न्यायलीलावतीप्रकाशविवृतिः

ति । गुणत्वदिबाघकवद्द्रव्यत्वादिबाधकस्यापि वक्ष्यमाणत्वादित्यत्यर्थः । त्वगिति । त्वक्चक्षुषोः साध्याव्यापकत्वादन्यान्तम् । मनसि


  1. द्वितीयमनुमानं सत्प्रतिपक्षम् इति प्रा० पाठ ।