सामग्री पर जाएँ

पृष्ठम्:न्यायलीलावती.djvu/६७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५९९
न्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता


[१]न्यायः परार्थनुमानम् । स च प्रतिज्ञादिपञ्चावयवात्मा ।


न्यायलीलावतीकण्ठाभरणम्

 सचेति । मोक्षसाधनार्थमुपन्यस्तो न्यायो वुद्धिस्थतया तच्छन्देन परामृष्यते । प्रतिज्ञादीति । 'प्रतिज्ञाहतूदाहरणोपनयनिगमनान्यवयवा'

न्यायलीलावतीप्रकाशः

दिति (१) बाधकात् । न चाप्रयोजकत्वं, स्वरुपयोग्यतावच्छेकजातेः सहकार्ययोगव्यक्तिवृत्तित्वनियमात्, गन्धस्य स्वरुपयोग्यतावच्छेदकपृथिवीत्वे व्यभिचार : नानाजातीयगन्धवदवयवारब्धेऽवय विनि गुणविरोधेन गन्धानुत्पादात् ॥

स चेति । न्यायपरामर्षः, पूर्वं न्यायस्यानभिधानेऽपि मोक्षे न्यायस्य प्रमाणत्वेनाभिधानात् तस्य बुद्धिस्थत्वात् । अनुमितिचरमकार-

न्यायलीलावतीप्रकाशविवृतिः

युक्तम् । नित्यस्यापि स्वरूपयोग्यस्य फलानुपहितत्वमिति स्वयमेवाभिधानेन सुखसमवायिकारणताया ईश्वरसाधारणत्वेनैवावच्छेदात्, तस्मात् यथाश्रुत एव पक्षः । समानकालीनदुःखासमानाधिकरणतावच्छेदकतया दुःखाभाबत्वमेवात्र मुक्तत्वं, तच्च ध्वंसमादाय संसार्यात्मनि, अत्यन्ताभावमादायेश्वरे इति न तेनार्थान्तरमिति रहस्यम् । मुक्तात्मत्ववदिति व्यतिरेके दृष्टान्तः । घटत्वादिवदिति क्वचित्पाठः । स तु सुगम एव । स्वरूपयोग्यतेति । न च जन्यगुणस्वरूपयोग्यतावच्छेदकद्रव्यत्वे रूपोपलब्धियोग्यतावच्छेदक चक्षुष्ट्वे च व्यभिचार इति वाच्यम् । द्रव्यत्वसाक्षाद्याप्यत्वेन जातेर्विशेषणात् । प्रत्यक्षत्वमपि विशेषणमतो न सुखोपलब्धियोग्यतावच्छेद कमनस्त्वे व्यभिचारः । यद्यपि नियमविरुद्धो नियमः, तथापि तन्नियमानभ्युपगमेनायमुक्तः । न चाप्रयोजकत्वम्, निरुपधिसहचारदर्शनस्य विपक्षबाधकत्वात् । गुणविरोधेनेति । न च चित्ररूपवत् चित्रगन्धस्यापि स्वीकारादिदमयुक्तम्, अवयविनि प्रत्यक्षत्वानुपपत्या चित्ररूपकल्पनाचित्रगन्धेच मानाभावादिति दिक् ॥

 पूर्वमिति । एतच्च स चेति पूर्व यदि न्यायः परार्थानुमानमिति न पाठस्तदा बोध्यम् | अनुमितीति । उपनयान्तचतुरवयवेऽतिव्या


  1. ↑ अत्र विवृत कारमतेन-मुक्तात्मत्ववदित्यपि पाठो बोध्यः ।