महाप्रलयावस्थायामाकाशवत् । न च क्रमेण सर्वमुक्तिः ।
केषाञ्चिदात्मनां संसार्यैकस्वभावत्वात् । न चैवं सति तत्वशङ्कायां [१] सर्वेषां मोक्षाननुष्ठानप्रसङ्गः, शमदमभोगानभिष्वङ्गादि चिह्वेन श्रुतिसिद्धेन संदेहनिवृत्तेः । इति मुक्तिः ॥
न्यायलीलावतीकण्टाभरणम्
वृत्तिविशेषगुणासमानकालोत्पत्तिकस्ववृत्तिविशेषगुणध्वंसवान् विभुत्वे सति कार्याविशेषगुणत्वात् गगनवात् । तेनैककालीनेति विशेषणे दृष्टान्तासिद्धिः क्रमविवक्षायां च इदानीमपि सिद्धसाधनादिति देक्ष्यमपास्तम् । महाप्रलयेति सम्प्रदायमते दृष्टान्तता | तत्वशंकयेति । यद्यहमेवोखवात्मा स्यामिति शङ्कयेत्यर्थः ॥ इति मुक्तिः ।
न्यायलीलाबतीप्रकाशः
विभुत्वे सति कार्यविशेषगुणवत्वात् आकाशादिवदिति विवक्षितत्वात् | "आत्मा वा अरे श्रोतव्य" इत्याद्युपक्रम्य, "दुःखेनात्यन्तं विमुक्तश्चरतीति" श्रुतिरत्र मानम् । ननु यद्यहमेवोखरात्मा स्थामिति शङ्कया न मोक्षार्थी कश्चिद्ब्रह्मचर्यादिदुःखमनुभवेदित्यत आह --- न चैवमिति । न च शमदमादिकार्येऽपि प्रत्यात्मत्वेनैव स्वरूपयोग्यतेति वाच्यम् । आत्मत्वं न विमुक्तात्ममात्रवृत्ति जातित्वात् घटत्वादिव-
न्यायलीलावतीप्रकाशविवृतिः
धावनमपि तदर्थमेव । परवृत्तितुणध्वंसस्य सामान्यगुणध्वंसस्यात्यन्ताभावस्य चामुक्तित्वात् विभुत्वे सतीति । स्वनाशनाश्य रूपादिमति ईश्वरे कालादौ व्यभिचार इति विशेषणानि । न चैतन्मते स्वरूपयो ग्यात्मनि व्यभिचारः, तदन्यत्वेनापि विशेषणात् । न च वर्तमानाप्य चिरमनुभूयत इति मते बाधः, चरम मोगध्वंस मादायैव साध्यसत्वात् । यदि च मुक्के: स्वरूपलाभाय विशेषपदं दुख परम्, तदा तदन्यत्वेनाप्याद्यविशेषगुणाविशेषणम् । तदनभ्युगन्तुमतेनैवेदमित्यपि बदन्ति । आकाशादीति दृष्टान्ते क्वचित्पाठः । तत्रादिपदं व्यतिरेकडष्टान्तसंग्रहायेति ध्येयम् । आत्मत्वमिति । नन्वीश्वरात्मवृत्तित्वेनार्थान्तरं तस्य दुः खध्वंसाभावेनाविमुकत्वादिति चेत् । अत्र संसार्यात्मत्वमेष पक्षः, सुस्वसमवायिकारणतावच्छेदकतया तज्जातिसिद्धेरिति केचित् । तद्-
- ↑ शंकया-मा० पु० पाठः ।