न्यायलीलावतकण्ठाभरण- सविवृतिप्रकाशोद्भासिता ५९७ उपलक्षितस्वात् (१), तस्य तत्फल सम्पादक देहव्यूहेनाप्युपपत्तेः । स्वर्गवत् श्रुतिसिद्धे चापवर्गेऽनुमानमध्युच्यते । आत्मा कदाचि- द्वस्ताशेषविशेषगुणो त्रिभुत्वे सति कार्यविशेषगुणवस्वात् - न्यायलीलावती कण्ठाभरणम् उत्पन्नज्ञानस्य मुमुक्षोस्तावदेव चिरं विलम्बः यावन विमोक्षे कर्मनाशैरथ सम्पद्यते कैवल्येनेति । उपलक्षणादिति । तन्मतेऽपि भस्मसात्करणमुपलक्षणमेव, किंच 'भिद्यते हृदयग्रन्थिश्छिद्यते कर्मबन्धनम् । श्रीयन्ते चास्य कर्माणि तस्मिन्डष्टे परावरे ||' इति श्रुतिविरोधात्, 'ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते तथेति' स्मृतिरपि अवश्यमन्यपरेति भावः । आत्मा कदाचिदिति । चैत्रात्मा स्व- न्यायलीलावतीप्रकाशः भावः । आश्मा कदाचिदिति । ननु चारोवविशेषगुणध्वंसस्य क्रमेण तत्र सरवारिसद्ध साधनम्, एककालीनेति विशेषणे दृष्टान्तासिद्धेिः आ. काशेप्युत्पत्स्य मानविशेषगुणध्वंसस्याभावात् | मैवम् | देबदत्तात्मा स्ववृत्तिविशेषगुणासमान कालोत्पत्तिक स्ववृत्तिविशेषगुणध्वंसवान् न्यायलीलावती प्रकाशविवृतिः एककालीनेति विशेषण इति । ध्वंसस्थेति शेषः । आकाशवदिति मूले महाप्रलयपदेन कार्यद्रव्यानाधिकरणकाल एवोक्तोऽन्यस्यानभ्युप- गमादित्याभिसन्धानेनेदम् । देवदत्तात्मेति । आत्ममात्रपक्षत्वे ईश्वरे ऽसतो: (१) बाधासिद्धीति देवदत्तपदम् | सिद्धसाधनवारणाय उत्प चिकत्यन्तम् । तत्रापि ईश्वररावशेषगुणसमानकालतया बाध इति स्ववृत्तिपदम् । विशेषपदत्यागे आत्मैकत्वादिकमादाय बाघ इति तत्पदम् । विशेषपदार्थमादायांकबाघादाह गुणेति । ताडशगुणास मानकालेति कृते दृष्टान्तासिद्धि प्रलयकालेऽपि भाविसृष्टिकाली. नशब्द समान कालध्वंसंवत्त्वादाकाशस्येत्युत्पत्तिगर्भो हेतुः । न च ब्रह्माण्डान्तरीयशब्दमादाय दोषतादवस्थ्यमिति वाच्यम् | एकदैव सर्वब्रह्माण्डप्रलय इति मतेनोकत्वात् । चरमस्ववृत्तिपदं मुक्तिस्वरू पलाभाय । एवं विशेषपदमपि । अभावगर्भतां परित्यज्य ध्वंसपर्यन्त
( १ ) उपलक्षणात - शंकर मिश्रधृतः पाठ । ( २ ) माध्यत्वोरसत्वात इतिपाठोडन समुचितः ।