सामग्री पर जाएँ

पृष्ठम्:न्यायलीलावती.djvu/६७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६००
न्यायलीलावती


न च प्रतिज्ञादीनामसाधनाङ्गत्वम् अत्यन्तबुभुत्सितसाध्यप्र-


न्यायलोलावतीकण्ठाभरणम्

इति पारमर्शसूत्रात प्रतिवादीनामियादिपदेन यावत्स्ववयवेषु प. रविप्रतिप्रतिस्तेषां संग्रहः । अत्यन्तेति । प्रथमं साध्यनिर्देश एवापेक्षितः । न च विप्रतिपत्तित एव तदुपस्थितिः, तस्याः समयबन्धनान्तरितत्वात् । तर्हि व पुनरावर्तनीयेति चेत्, तर्हि सैव प्रतिज्ञा प्रतिज्ञया साध्यस्वरूपोपस्थितौ साधनस्वरूपाकांक्षायां हेतुस्वरूपोपस्थापकहेत्ववयवः । स च व्यासो गमक इति व्याप्तिजिज्ञासायामुदाहरणम् । ततश्व व्याप्तोऽसौ पक्षधर्मो न वेत्याकांक्षायामुपनयः । ततो व्याप्तः पक्षधर्मश्चायं वाधितस्तुल्यबलप्रतिरुद्धो वा भवेदित्युभयाशङ्कानिवारणार्थं निगमनम्, सिद्धवटुपसंहारस्य विपरीत शंकाविलयनेन प्रयोजकत्वात् । ततः पंचभरवावयवैः स्वम्वलिङ्गविशिष्टप्रतिपादनकृतः सम्भूय समस्तरूपोपपन्नतया लिङ्गप्रतिपादनम् । स च न लिङ्गपरामर्श: । अत्रातरा पक्षसन्नयं सपक्षसन् विपक्षासनवाधितोऽसत्प्रतिपक्षितश्चेति अयं मनसा परिच्छिनात्ति वादिवचननाश्वासादेतदेव विशिष्ट वैशिष्ट्यावगाहि मानमुच्यत इत्यर्थः । तत्रानुमिति चरमकारणलिङ्गप राम शर्प्रयोजकशाब्दशानजनकं वाक्यं

न्यायलीलावताप्रकाशः

णतृतीयलिङ्गपरामर्षप्रयोजकशाब्दज्ञानजनकं वाक्यं न्यायः । प्रतिज्ञादिपञ्चकैरेकवाक्यतया स्वस्वार्थविशिष्टज्ञानं जन्यते, तेन च विशिष्टवैशिष्ट्या वगाहिमानान्तरमुत्थाप्यते, तेन चरमपरामर्षो जन्यत इति स्थितेः । आदिपदेन हेत्वादिचतुष्टयपरिग्रहः । ननु यावती मामग्री स्वार्थानुमाने क्लृप्ता तावत्या एव परं प्रतिपादयितुमुचितत्वा-

न्यायलीलावतीप्रकाशविवृतिः

प्तिवारणाय चरमेति । लिङ्गपदं सम्पातायाम् । जनकेत्युक्ते बाध इति प्रयोजकेति । योग्यताज्ञानजनककण्टकोद्धारवाक्येऽतिव्याप्तिवारणाय शाब्दपदम् | शाब्दज्ञानत्वेन यस्य लिङ्गपरामर्षस्य प्रयोजकतेत्यर्थः । प्रकृते च योग्यताज्ञानत्वेन जनकत्वात् । वाक्यपदं तु अवयवेऽतिव्याशिवारणाय । वाक्यान्तराघटकपदसमुदायश्च तदर्थ इति दिक् । मानान्तर उत्थाध्यते जन्यते, मध्यस्थनियोगस्य साध्योपलक्षित-