सामग्री पर जाएँ

पृष्ठम्:न्यायलीलावती.djvu/६७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५९४
ज्यायलीलावती


तीति पूर्वपक्षतुल्यतापत्तेक्ष्च इयमेव हि प्रागभावानुवृत्तिरिति प्रावादुकप्रवादः । न चास्य समायव्यय फलत्वेनापुरुषार्थत्वं, दुःखस्य प्राचुर्यात्सुखस्याल्पत्वात् । आनन्त्यात्मुखदुःखयोरिदमनुपपन्नमिति चेत् । न । दिनमासवर्षावच्छेदेन दुःखप्राचुर्यनिश्चयेऽत्रापि तदनुमानात् । तदनाकलित सङ्ख्यात्वमेतयोरानन्त्यं, न तु न्यूनातिरेक भावाभावः, अन्यथा सुकृतदुष्कृतयोरानन्त्ये विशेषाभावाद पूर्वकर्माननुष्ठानप्रसङ्गे वैदिक विधिनिषेधवैयर्थ्यापत्तेः । जी-


न्यायलीलावतीकण्ठाभरणम्

इयमेवेति । दुःखसाधननिवृत्तिमुखेन दुःखप्रागभावस्यैव साध्यत्वात् मीमांसकानां नैयायिकानां च प्रायश्चित्तस्थले प्रागभावानुवृत्तिरि यमेवेत्यर्थः । समायव्यय फलत्वादिति [१] । दुःख साधनशरीरादिनाशे सुखस्यापि हानादित्यर्थः । दुःखस्येति । दुःखदुर्दिनमध्ये केयं स्वसुखस्ये ति कामेन वीतरागाणां तत्र प्रवृत्तिर्न स्यादित्यर्थः । इदमिति | दुःखस्य भूयस्त्वं सुखस्य चाल्पत्वमित्यर्थः । दिनमासेति । कचिन्माले दुःखप्रवाहस्य भूयस्त्वं सुखम्य चाल्पत्वमनुभवसिद्ध मन्यत्रापि तदनुसारेणानुमेयमित्यर्थः । राजादीनां सुखित्वेऽपि गर्भवासादिदुःखप्राचुर्यात् ब्रह्मादीनान्तु सुखलेशोपि नास्तीति । तर्हि द्वयोरानन्त्यप्रवादः किन्निबन्धन इत्यत आह तदनाकलितेति । अन्यथेति । यघु भयोस्तुल्यवदानंत्यम्, तदा तद्बीजसुकृतदुः कृतयोरप्यानन्त्य मेवेति

न्यायलीलावतप्रिकाशः

र्थः । दिनमासेति । यद्यध्येत न्नैक पुरुषापेक्षया राजादौ स्वर्गिणि च वैंपरीत्यदर्शनात् सामान्यतः भूयस्त्वं निरूपयितुमशक्यम्, तथापि धर्माधर्मोभयावरुद्धशरीरे दुःखानि भूयांसि न सुखानीति, राजादावपि गर्भ वासादिभूयोदुःखदशनात् । एवंसति सुखदुःखयोरानन्त्यव्यवहारं समर्थयति तदनाकलितेति । विधिनिषेधेति । विहितं कर्मणि प्रवृत्तस्य सुकृतवद्दुः कृतस्यावक्ष्यंभावात्, अन्यथाऽन्यूनानतिरिक्तरूपानन्त्यानुपप-

न्यायलीलावतीप्रकाशविवृतिः

सम्भवादिति दिक् । गर्भवासादीति । 'गर्भवासस्थलेऽधिक' इति स्मृते-


  1. ↑ एतन्मतेनात्र मूले पंचम्यन्त एव पाठो बोध्यः ।