अभावस्य नित्यत्वे स्वत एव नाशक निवृत्तिराकाशादिवत् । अनित्यत्वे स्वशक्यतेति चेत् । न [१] । गगनस्य स्वरसतो [२]
नाशविरोधात् । दुःखाभावस्य तु नाशकोपलब्धौ स्वभावविरोधाभावात्
कारणनिष्टत्तिमुख लभ्यत्वात् । घटाभावस्य नित्यत्वे घटहेतुतोऽप्यशक्या घटोत्पत्तिः । अनित्यत्वे तु घटहेतुं विनैव भविष्य-
न्यायलीलावतीकण्ठाभरणम्
रः । यत्तु पापान्तरमासाद्य जनयतीति पक्षः, समदूष्य एव निरस्तः । प्रागभावे नित्यानित्यविकल्पोक्तं दोषं परिहरति अभावस्येति । स्वरसत इति । यथा प्रागभावे द्वैराश्यं कश्चिन्नाश्यः कश्चित्सहकारिवि घटनद्वारा पालनीयो नित्यः पर्यवसन्नोऽपि तथा गगन इत्यर्थः । अन्यथा जगत्यन्निरीहतेत्याह घटेति । भविष्यतीति । घट इति शेषः ।
न्यायलीलावतीप्रकाशः
मैवम् । तत्र दुःखप्रागभावस्य सत्वऽपि तस्य दुःखानुत्पादतया पुरु षार्थत्वात् । स च पापनाशद्वारा प्रायश्चित्तसाध्य इति प्रागभावसत्त्वेऽपि न निःफलं प्रायश्चित्तं, तेन प्रागभावेन दुःखमवश्यं जननीयमिति शिष्यत एव, किन्तु पापान्तरमासाद्य । न चैवं प्रायश्चित्तमफलं, दुःखानुत्पादेन तस्य फलवत्वात् । अभावस्येति । दुःखाभावस्येत्यर्थः । भविष्यतीति । अत्र घटोत्पत्तिरित्यनुषज्यते । सैव प्रागभावनिवृत्तिरित्य-
न्यायलीलावतीप्रकाशविवृतिः
ताविरोधः । न चैवं तयोरभेदे वायौ रूपं भविष्यतीति प्रत्ययापत्तिः, फलोपहितेनैव तथा प्रतीतेरिति दिक् । किन्तु पापान्तरमासाद्येति । न च कृतप्रायश्चित्तस्य तज्जन्मनि वाराणासीमृतस्य कथं पापान्तरोत्पत्तिरिति वाच्यम् । तत्र प्रागभावो नास्त्येव अधर्मध्वंसेनैव फलेन प्रायश्चितस्य सफलत्वात, प्रागभावसत्वेऽधर्मध्वंसद्वारा प्रागभावोऽपि साध्यस्तदसत्वे चाधर्मध्वंसमात्रमिति सफलत्वस्योभयत्र सत्वात् । न च मुख्यत उद्देश्यफलंनैव सफलत्वनियमः साङ्गकर्मण इति वाच्यम् । कीर्तनादिना धर्मनाशस्थलं व्यभिचारात् । तदूधर्मनाशस्य च प्रतियोगिजनकजा कजातीयनाशत्वेन सोपाधीच्छाविषयत्व