सामग्री पर जाएँ

पृष्ठम्:न्यायलीलावती.djvu/६५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५७८
न्यायलीलावती


वस्यारोपितत्वे तत्प्रतियोगिनो भावस्य सत्तापत्तेः । उभयनिषेधे च विरोधापत्तेरिति चेत् । मैवम् [] । अतिरेकिणोऽनवस्था []-


न्यायलीलावतीकण्ठाभरणम्

घटतादात्म्यस्य सत् स्यादित्यत आह अभावस्येति । ननु घटतदभावयोरन्योन्याभावो नास्तीति बाधकप्रत्ययेन भवितव्यं, तथाचान्यो-

न्यायलीलाबतीप्रकाशः

तु तादात्म्यावच्छिन्न प्रतियोगिका भावत्वम्, तादात्म्यं चैकवृत्तिधर्मः, संसर्गाभावे स्वनेकवृत्तिना धर्मेण संसर्गेण प्रतियोगितावच्छिद्यते । अनेकवृत्तित्वं तु स्वसमानाधिकरणधर्मविरोधिधर्म सामानाधिकरण्यम् । यत्र तु प्रतियोगितावच्छेदकमधिकरणे समारोप्य नियतनिषेधावगमः सोऽन्योन्याभाव इति तत्त्वम् । अभावस्यारोपितत्व इति । घटतदभावयोः परस्परविरहात्मकतयाऽन्योन्याभावस्यारोपितत्वे प्रतियोगिनो भावस्य तादात्म्यस्य सत्खाद्यत्र घटाभावस्तत्र घटस्य सत्तापत्ते रित्यर्थः

न्यायलीलावतीप्रकाशविवृतिः

न्योन्याभावग्रहस्य धर्मात्यन्ताभावग्रहत्वस्वीकारेऽपि तस्य तस्य घटादिरूपस्य धर्मस्यात्यन्ताभावग्रहसम्भवादित्यर्थः । तथा च तवापि तेन तेन रूपेण सर्वघटात्यन्ताभावग्रहे भूतले घटभ्रमो न स्यादिति तुल्यमित्यर्थः । एकवृत्तिधर्म इति । अव्यासज्यवृत्तिघटत्वादिकमित्यर्थः । अनेकवृत्तित्वमिति । यद्यपीदं घटत्वेऽपि गतं तत्समानाधिकरणनीलाविरुद्धशुक्लादिसमानाधिकरणत्वात् तस्य, तथापि प्रतियोगितावच्छेदकधर्मविरुद्धाधिकरणतावच्छेदकधर्म सामानाधिकरण्यमेव पारिभाषिकं घटत्वादि व्या वृत्तमनेकवृत्तित्वमिह विवक्षितम् । प्रतियोगिनमित्यादिकमर्थगत्या प्रागुक्तमेव स्फुटप्रतीत्यर्थमात्रानुदितम् । ननु न तादात्म्यस्य प्रतियोगितावच्छेदकत्वं किन्त्वारोप्यस संर्गत्वमित्यपरितोषदाह यत्र त्विति । प्रतियोगितावच्छेदकस्यारोपः संसर्गतया द्रष्टव्योऽन्यथाऽऽरोप्य निषिध्यते इति सिद्धान्तव्याकोपादित्यवधेयम् । यत्र घटाभाव इति । यद्यपि भावस्य तादात्म्यस्येत्येव मूलार्थस्तथापि


  1. न अतिरोकिण इति मा० पु० पाठः ।
  2. अनवस्थान दूषित्वात् मु पु० पाठः ।