न्यायलीलावती वस्यारोपितत्वे तत्प्रतियोगिनो भावस्य सत्तापत्तेः । उभयनिषेधे च विरोधापत्तेरिति चेत् | मैवम् (१) । अतिरेकिणोऽनवस्था (२). न्यायलीलावतीकण्ठाभरणम् घटतादात्म्यस्य सत् स्यादित्यत आह अभावस्येति । ननु घटतदभाव- योरन्योन्याभावो नास्तीति बाधकप्रत्ययेन भवितव्यं, तथाचान्यो- न्यायलीलाबतीप्रकाशः तु तादात्म्यावच्छिन्न प्रतियोगिका भावत्वम्, तादात्म्यं चैकवृत्तिधर्मः, संसर्गाभावे स्वनेकवृत्तिना धर्मेण संसर्गेण प्रतियोगितावच्छिद्यते । अ नेकवृत्तित्वं तु स्वसमानाधिकरणधर्मविरोधिधर्म सामानाधिकरण्यम् । यत्र तु प्रतियोगितावच्छेदकमधिकरणे समारोप्य नियतनिषेधावगमः सोऽन्योन्याभाव इति तत्त्वम् | अभावस्यारोपितत्व इति । घटतद्भावयोः परस्परविरहात्मकतयाऽन्योन्याभावस्यारोपितत्वे प्रतियोगिनो भा. वस्य तादात्म्यस्य सत्खाद्यत्र घटाभावस्तत्र घटस्य सत्तापत्ते रित्यर्थः न्यायलीलावतीप्रकाशविवृतिः न्योन्याभावग्रहस्य धर्मात्यन्ताभावग्रहत्वस्वीकारेऽपि तस्य तस्य घटादिरूपस्य धर्मस्यात्यन्ताभावग्रहसम्भवादित्यर्थः । तथा च तवा. पि तेन तेन रूपेण सर्वघटात्यन्ताभावग्रहे भूतले घटभ्रमो न स्यादि. ति तुल्यमित्यर्थः । एकवृत्तिधर्म इति । अव्यासज्यवृत्तिघटत्वादिकमि. त्यर्थः । अनेकवृत्तित्वमिति । यद्यपीदं घटत्वेऽपि गतं तत्समानाधिकरण नीलाविरुद्धशुक्लादिसमानाधिकरणत्वात् तस्य, तथापि प्रतियोगि तावच्छेदकधर्मविरुद्धाधिकरणतावच्छेदकधर्म सामानाधिकरण्यमेव पारिभाषिकं घटत्वादि व्या वृत्तमनेकवृत्तित्वमिह विवक्षितम् । प्रति योगिनमित्यादिकमर्थगत्या प्रागुक्तमेव स्फुटप्रतीत्यर्थमात्रानुदितम् । ननु न तादात्म्यस्य प्रतियोगितावच्छेदकत्वं किन्त्वारोप्यस संर्गत्वमि. परितोषदा यत्र विति । प्रतियोगितावच्छेदकस्यारोपः संसर्गतया द्रष्टव्योऽन्यथाऽऽरोप्य निषिध्यते इति सिद्धान्तव्याकोपादित्यवधेयम् । यत्र घटाभाव इति । यद्यपि भावस्य तादात्म्यस्येत्येव मूलार्थस्तथापि (१) न अतिरोकिण इति मा० पु० पाठः । (२) अनवस्थान दूषित्वात् सुपु० पाठः ।
पृष्ठम्:न्यायलीलावती.djvu/६५५
दिखावट