दूषितत्वात् । नास्तीतिबुद्धे रोपिता भावालम्बनत्वात् आरोपितान्योन्याभाव संसर्गनिषेधव्यवहारस्य घटतदभावाभ्यामेव कररगात् सम्बन्धवत् । यथा सम्बन्धस्वरूपमेव सम्बन्धारोपात्स
म्वन्धमवभासते सम्बन्धान्तरारोपेऽपि स्वरूपमेव नियामकं तथात्राप्यविरोध इति सिद्धं चातुर्विध्यम् । इति अभावः ॥
न्यायलीलावतीकण्ठाभरणम्
ब्याभावसंसर्गाभावोऽधिकः सिद्ध इत्यत आह आरोपितेति । घटतदभावयोर्भेदबुद्धिरारोपितान्योन्यामावनिबन्धनेत्यत्र इष्टान्तमाह यथेति । दृष्टा हि सम्बन्धे सम्बन्धबुद्धिरारोपितसम्बन्धनिबन्धनेत्यर्थः ॥ अभावः ॥
न्यायलीलावतीप्रकाशः
उभयेति । उभयनिषेधे घटात्मकत्वघटान्योन्याभावाधिकरणत्वयोर्निषेधे, विरोधो भावाभावास्यां तृतीयकोटेरभावादित्यर्थः । अतिरेकिणोऽधिकरणादभावाद्भिन्नस्य तस्याभावस्येत्यर्थः । न च घटाभावे पटो नास्तीति बुद्धिस्तत्र मानमित्याह नास्तीति । ननु यस्य यत्राभावस्तत्र तस्यारोप इति नियमादन्योन्याभावारोपस्तत्रैव स्याद्यत्र तदभावस्तथा चान्योन्याभावे तदारोपः कथमभावान्तरं विनेत्यत आह आरोपितेति । आरोपितो योऽन्योन्याभावस्तस्य यः संसर्गस्तस्य यो निषेधव्यवहारः स आरोपविषयेणैवाभावेन क्रियते आरोपेऽध्यारोग्याभाव एव प्रयोजकः स चात्रारोपविषय एव, अभावान्तरं तु नात्र तन्त्रमित्यर्थः । सम्बन्धवदिति । यथा सम्बन्धान्तरेऽनव स्थानात्सम्बन्धान्त-
भ्यायलीलावती प्रकाशविवृतिः
घटाभावयोस्तादात्म्येऽपि को दोष इति यदि ब्रूयात्तत्रेदमुकं घटास्मकत्वेति । घटतदद्भावयोरिति शेषः । नास्तीति । तथा व तत्तुल्यन्यायतया घटांभावेऽपि घटान्योन्याभाव आरोपित इत्यर्थः । अत्र शङ्कते ननु यत्रेति । आरोपविषयेणैवाभावेनेति । घटाभावेनेत्यर्थः । तथाच घटाभावस्याधिकरणत्वव्यावर्त्तकतया घटस्याधिकरणकोटिप्रवेशेन घटत. दभावास्यामिति मूलमुपपादनीयमिति भावः । स चात्रारोपविषय एवेति । यद्यपि घटाभावे पटो नास्तीति प्रतीतेः क्लृप्त पटाभावेनैवोपपत्तौ ना-