सामग्री पर जाएँ

पृष्ठम्:न्यायलीलावती.djvu/६३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५५५
न्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोभ्दासिता


प्राक्काळमाश्रित्य प्रश्नः । तदा भाववति [] । अथान्तरालं काळमाश्रित्य प्रश्नः । तदा विरोधः । इदं सर्वलयोत्पत्तिप्रतिक्षेपकं सत्कार्यवादमनुपततीति [] महदिन्द्रजालम् । घटाभाव एव च घटनास्तिता । अतिरेकेऽनवस्थितेः । न त्वेवं प्रकृतेऽपि भूतलस्त्ररूपस्यातिप्रसङ्गत्वात् । ततः सम्बन्धवदिदमवश्याङ्गीकर्त-


न्यायलीलावतीकण्ठाभरणम्

ते सत’ इति प्राभाकरस्यापि सांख्य मतानुप्रवेशादपसिद्धान्त इत्यर्थः । घटाभावे घटो नास्तीति यद्विकल्पितं तत्राह घटाभाव एवेति । अभावेऽभावान्तरभावेऽपि स्वरूपनिबन्धन एव व्यवहार इत्यर्थः ।

न्यायलीलावतीप्रकाशः

द्र्व्यं अभावजन्यमित्यर्थः । लयोत्पत्तीति । ध्वंसप्रागभावा वित्यर्थः । घटाभावे घटो नास्तीत्यत्राह – घटाभाव एवेति । भावाभावयोरभावप्रतीत्यविशेषेण्यभावेऽभावान्तरस्वीकारेऽनवस्थाऽतोऽनतिप्रसक्ताधिकरणस्वरूपमेवाभावविषयो भावे तु बाधकाभावादतिरिक्ताभावसिद्धिरित्यर्थः । सम्बन्धवदिति । यथा सम्बन्धशुन्यः समवायः स्वरूपेणैव स्था(?)[] किन्तु तृतीयमादाय, अथानवस्थामूलत्वं द्वितीयस्य, तर्हि प्रथमस्यापि तथात्वमिति सोपि परिहार्यः । अत्र प्रतीत्यविशेषात् स एवाभावस्तत्र वर्त्तते, न चात्माश्रयः, प्रमेयत्ववत् प्रमाणसिद्धत्वात् ।

न्यायलीलावतीप्रकाश विवृतिः

इति शेषः । तादूरूप्यं यद्यभावत्वमेवोच्यते तदोद्देश्य विधेयभावानुपपत्तिरत आह अभावजन्यमित्यर्थ इति । संयोगे सम्बन्धान्तरं सद्विशेषययति यथेति । प्रमेयत्ववदिति । संयोगसमवायाभ्यामेव स्वस्य न स्वस्मिन्वृत्तिः स्वरूपसम्बन्धेन तु प्रतीतिसिद्धा सा स्वीक्रियते एवेति भावः । यद्यप्येवं भूतलादावण्याघारत्वप्रतीतेस्तथैवोपपत्तिस्तत्राव्यतिरिक्ताभावो न सिध्येत् । अन्यथाऽभावण्यभावान्तरस्वीकारापत्तिः । तथाप्याघारत्वप्रतीतेरुत्सर्गतो भिन्ननिष्ठता तथाऽतिरिक्ता-


  1. ०ति विरोध ।
  2. ०दमापतीति--तो पु ।
  3. अन्न पाठो क्ष्रष्टः प्रतिभाति ।