सामग्री पर जाएँ

पृष्ठम्:न्यायलीलावती.djvu/६३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५५६
न्यायलीलावती


व्यम् । घटाभावे पटो नास्तीत्यत्र का वार्ता । प्रकृतैव । तर्हि सापि पटनास्तितेति सर्वप्रतिपक्षविरहे जगच्छ्रन्थं स्यादित्यस्मत्पस्थानमनुसरेति चेत् । मैवम् । स्वरूपेण तन्निषेधव्यवहारविषयत्वेऽपि कश्चित्तद्विरोधिस्वभावो मध्यक्ष्चेति सम्भवात् । वस्तुवैचित्र्यस्यापर्यनुयोज्यत्वात् इति । सघटजातीय भूतलात्पृथग्भूतलमिति चेत् । न । भूतळ त्वेन पृथग्क्त्वस्यानुपपत्तेः । साधारणधर्मस्या-


न्यायलीलावतीकण्ठाभरणम्

प्रकृतैवेति । तत्राप्यनतिप्रसक्ताधिकरणस्वरूपेणैवाभावव्यवहार इत्यर्थः । यद्यपि अभावेण्यभावान्तराङ्गीकारे नानवस्था, किञ्च प्रतीतेस्तौल्येन

न्यायलीलावतीप्रकाशः

यद्वा प्रतीतेस्तौल्येन घटाभावेण्यभावान्तरं वर्त्तत एव, अन्यथा व्यवहारस्य तुल्यत्वादेकत्र यदि स्वरूपेणाभावव्यवहारः स्यात् नृन भ्रमः स्यात् । किञ्चाभावो यदि घटं प्रति (?) [] उत्तरं प्रकृतैवेति । अनति प्रसक्ताधिकरणस्वरूपमेवाभावव्यवहारहेतुरित्यर्थः । प्रष्टाऽभिसन्धिमुद्घाटयति तर्हीति । एकध्वंसेनान्यध्वंसव्यवहारे घटध्वंसः सकलध्वसरूप इति घटध्वंसे सकलध्वंसो जायते इत्येकध्वसे सत्येव जगच्छ्रन्यमापद्येतेति माध्यमिकमतप्रवेश इत्यर्थः । स्वरूपेणेति । घटध्वंसो घटविरोधी न पढादिविरोधीत्यर्थः । सघटेति । अभावव्यवहारकारणमिति शेषः । एकस्मात् संघटभूतलात् सघटमपि भूत:

न्यायलीलावतीप्रकाशविवृतिः

भावसिद्धावुत्तरकालमवतीर्णो ऽपि प्रतिबन्दिरभावं न बाधते उपजीव्यविरोधादिति रहस्यम् । नन्वेकस्यापि ज्ञानादे: सम्बन्धद्वयेन विशिष्टां प्रतीतिः प्रमा भवत्येवेत्यरुचेराह किञ्चति । नचेति । तर्कमूलभूतव्याप्तौ नायमुपाधिरापादकव्यापकत्वादित्यर्थः । अत्र विपर्ययसाध्यविशिष्टत्वमनवस्था चेत्यरुचिबीजं नवनिबन्धोपन्यासेन सुचि तम् । एकध्वंसेनान्यस्यापीति । घटध्वंसे पटो नास्तीति प्रतीत्या घटध्वं सस्यैव पटादिनास्तितास्वरूपत्वादित्यर्थः । घटे च घटतादात्म्या भावो नास्तीति यदि घटविधिरित्यत्र समाधिमाह मूले घंटे च घटा


  1. अत्रापि पाठो भ्रष्ट इति विवृतिदर्शनात्स्फुटं ज्ञायते ।