सामग्री पर जाएँ

पृष्ठम्:न्यायलीलावती.djvu/६३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५५४
न्यायलीलावती


तिरेकिणस्तस्पासिद्धेः । जन्ममइनेऽपि प्रागसत्त्वोपलक्षितं रूपं कीहशि ? अभाववति, यदैव ताद्र्ध्यं तदैव तेन तदभाववत् । अथ


न्यायलीलावतीकण्ठाभरणम्

त्यर्थः। अतिरोकेण इति । भूतलभिन्नस्येत्यर्थः । ध्वंसमाश्रित्याह जन्मेति । प्रश्नस्वरूपमाह प्रागिति । पूर्वं यदभावस्वरूपं नास्ति तत्कीडशे भूतले वर्तते इत्यर्थः । उत्तरमाह अभाववतीति । नन्वेवमनवस्थेत्याह यदैवेति । ताद्भूयमभावजन्यम्, न ह्यभावे जाते कपालं नाभाववदिति सम्भवतीति भावः । अथेति । अभावजन्यपूर्वावस्था कीडशत्यिर्थः । उत्तरं भाववतीति । घटतत्संयोगयोर्मध्ये कपालं कीडगिति प्रश्ने किमुत्तरमित्याह अथेति । ताडशकालाभावादिति । उत्तरमाह तदेति । इदमिति । आश्रयस्वरूपेण व्यवहारोपपादनमित्यर्थः । लयोत्पत्ती ध्वंसप्रागभावौ तौ चेन्न स्तस्तदा 'नासतो विद्यते भावो नाभावो विद्य-

न्यायलीलावतीप्रकाशः

सम्बघ्घते चाभावस्तस्मादस्त्युदासीनं भूतलमिति परसिद्धेन विपर्ययसिद्धौ तेनैव व्यवहारोपपत्तौ नाभावोऽभ्युपगन्तव्य इत्येवंरूपव्याघातग्रस्तमित्यर्थः । परसिद्धेनाप्यभावमुपादायैव प्रसङ्गस्तथा चाभावसिद्धिरित्यात्मप्रक्षेपकतेत्यर्थ इत्यन्ये । किञ्चैवं याडशि संस्थानविशेषविशिष्टे कपाले घटो वर्त्तते ताइकपालमेव घटव्यवहारजनकमस्त्विति कि घटेनेत्यपि स्यादिति भावः । अतिरेरोकण इति । सम्बन्धस्य भेदगर्भध्वेनाभेदे संबन्धासिद्धेरित्यर्थः । जन्प्रप्रश्नमेव विवृणोति प्रागसत्त्वेति । प्राक्यभावस्वरूपं नासीत्तदिदानीं कीडशि वर्त्तते इत्यर्थः । उत्तरमाह - अभाववतीति । अनवस्थां परिहरति यदैवेति । ता-

न्यायलीलावती प्रकाशविवतिः

न्तेन भूतलादीनामप्यभावव्यवहारकारणत्वं ममेति भावः । सम्बध्यते चाभाव इति । तेनैवेत्याद्यभ्युपगन्तव्य इत्यन्तं व्याघात स्वरूपपरम् । व्याघातग्रन्थत्वं च सम्बध्यते चाभाव इत्यस्य क्वचिदित्येवंरूपमिति पाठः । तत्र च सम्बध्यते चाभाव इत्यनेन व्याघातः । तेनैवेत्याद्यभ्युपगन्तव्यमित्यन्तं व्याघाताश्रयकथनपरम् । परसिद्धेनेति । विपर्ययव्याघातः पूर्व मुक्तः प्रसङ्गव्याघातस्त्वधुनेति भेदः । सम्बन्धासिद्धेरिति । त्वम्मते