सामग्री पर जाएँ

पृष्ठम्:न्यायलीलावती.djvu/६२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५५०
न्यायलीलावती


विस्तृतं चैवं शास्त्र एवेत्यलमनेन ।

 अभाव एव मूलभूतोऽसम्भवी कुतो मानभेदचिन्ता । ना-


न्यायलीलावतीकण्ठाभरणम्

नम्विन्द्रियस्य भावेन सह संयोगादिः सन्निकर्षोऽस्ति न त्वभावेनापि, न चासंनिकृष्टमिन्द्रियं ग्राहकमित्येव नियामकमिति चेत् । न विशेषणताया प्रत्यासत्तेरिहापि सत्त्वात् । अभावे गृहीते विशेषणता तथा च ग्रह इत्यन्योन्याश्रय इति चेत् । न । तदुपलब्धेस्तु प्रत्ययजननस्वाभाव्यलक्षणाया विशेषणतायाः पूर्वमपि सत्त्वात् । किञ्चेन्द्रियस्यान्वयव्यतिरेकसत्वात्तदेव तत्र करणं, न त्वधिकरणग्रहोपक्षीणं तत्, त्वगिन्द्रियोपनीते पीतेऽन्धस्यापि नीलिमव्यतिरेकग्रहापत्तेः । प्रतियोगिग्राहकेणाधिकरणग्रहणं तन्त्रमिति चेन्न । वायौ चक्षुषा रूपामावानुपलम्भप्रसङ्गात् । तत्र रूपाभावोऽनुमीयते इति चेन्न । लिङ्गाभावात् । अनुपलभ्यमानत्वमेव लिङ्गमिति चेन्न | तस्याप्यनुपलम्भात् । न ह्यनुपलब्धिरपि योग्यानुपलब्ध्या गृह्यते । उपलब्धेरयोग्यतया तत्र योग्यानुपलम्भासम्भवात् । प्रतियोगिग्रहे च इन्द्रियस्य सामर्थ्यादभावग्रहेपि सामर्थ्य कल्पनादित्यभिप्रेत्याह बिस्तृतमिति ।

 प्राभाकरं मतमुत्थाप्य निराकरोति अभाव एवेति । मूलतः-तत्त्वतः,

न्यायलीलावतीप्रकाशः

कश्चिद्भावो ग्राह्यः कश्चिन्नेति विनिगन्तुं न शक्यते तथाऽभावो ग्राह्यो न भाव इत्यपि तथेत्यर्थः । किञ्चाभावग्रह इन्द्रियानुविधानादिन्द्रियं तत्र हेतुरन्यथा निमिलिताक्षस्यापि घटानुपलब्ध्या घटाभावधीप्रसङ्गः, नापीन्द्रियार्थसन्निकर्षे सत्यनुपलब्धिं विनाऽभावधीविलम्ब इत्यभिसन्धायाह विस्तृतं चेति । अभाव एवेति । प्रमेयत्वं भावत्वव्याव्यमित्यर्थः । अतो न सिञ्चलि.

न्यायलीलावती प्रकाशविवृतिः

ग्यारोपवारणादिति दिक् । अन्यथा निमीलिताक्षस्यापीति । न च चक्षुरुन्मीलनादिसहकारिविरहान्न तत्र योग्यानुपलब्धिरिति वाच्यम् । चक्षुरुम्मलिनादेः संनिकर्षो पक्षीणत्वेन तदपेक्षायामिन्द्रियस्याण्यपेक्षणेन तस्यैव कारणत्वौचित्यादिति भावः ।