सामग्री पर जाएँ

पृष्ठम्:न्यायलीलावती.djvu/६२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५५१
न्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता


स्तीति धौरिति [१] चेत् । न अस्या आश्रयस्वरूप भेदालम्बनत्वात् । तथाहि — अस्ति तावद्भावाभावादासीनमाश्रयस्वरूपम् । कीदृश्यन्यथाभावः समवेति [२] ? न तावत्तद्वति [३], आत्माश्रयत्वात् । नापि तज्जातीयवति, अनवस्थिते । नापि तद्धीने [४], भावाभावयोरविरोधापत्तेः । भावाभावयोश्च ना-


न्यायलीलावतीकण्ठाभरणम्

असम्भवी-अधिकरणभिन्नत्वेन प्रमाणागोचरः । अत्र प्रमेयत्वं भावत्वव्याध्यमित्यर्थः । तथाच न सिध्यसिद्धिव्याघात इत्यर्थः । नास्तीति । मानमित्यध्याह्नियते समावसन्त्रमनुषज्यते वा । इह भूतले घटो नास्तीति प्रतीतिरेवाभावे मानम्, अस्या भूतलमात्रालम्बनत्वे घटवत्यपि प्रसङ्गादिति भावः । अत्रान्यथासिद्धिमाह अस्या इति । यादृशे भूतलेऽभावः प्रयु ज्यते तदेवाभावधीहेतुरित्यर्थः । आत्माश्रयेति । स्वस्मिन् स्वावृत्तिवत् स्वविशिष्टेपि स्ववृत्तेरनुपपत्तेरित्यर्थः । अभावान्तरवत्यभावान्तरं प्रयुज्यतामित्याशंक्यानवस्थया दूषयति नापीति । तद्धीन इति ।

न्यायलीलावतीप्रकाश:

द्धिव्याघातः । नास्तीति र्धरिति । अस्ति तावदिह भूतले घटो नास्तीति धीः, न च भूतलमात्रं तदालम्बनं घटवत्यपि प्रसङ्गात्, नापि केवलं भूतलं अतिरिक्त कैवल्यानङ्गीकारात् । न च भूतलमेव कैवल्यं पौनरुक्त्यापत्तेरित्यभावसिद्धिरित्यर्थः । आश्रयस्वरूपभेदमाह -तथाहीति । अस्ति भूतलविशेषो यत्राभावः सम्बद्ध्यते, अन्यथा देशादिनियमेन तद्यवहारो न स्यात्, तथाच स एवाभाव इत्यर्थः । आत्माश्रयादिति । स्वविशिष्टे स्वावृत्तेरित्यर्थः । अनवस्थितरिति । अभावान्तरव त्यभाववृत्तेरेव तस्याभावान्तरवति वृत्तेरपर्यवसानादित्यर्थः । तद्धीन इति । घटवतीत्यर्थः । अविरोघेति | सहावस्थानादित्यर्थः । भावाभावयोश्चेति ।

न्यायलीलावतीप्रकाशविवृतिः

अतिरिक्तेति । त्वयेति शेषः । अङ्गीकारे च पर्यवसितं विवादेनेति माणः । ननु घटभावादिपदस्यात्यन्ताभावपरत्वेऽन्योन्य संसर्गिता चेत्यनेन


  1. ↑ धीरस्तीति० ।
  2. ↑ सम्वध्यते । ता० पु ।
  3. ↑ तावद्वति - ता० पु० ।
  4. ↑ तद्मिन्ने ।