चेत् । न । भावभेद एव [१] सावकाशत्वात् । तुल्यन्यायेनैव विवेको न शक्यत इति चेत् । न । अस्याभावेऽपि तुल्यत्वात् ।
न्यायलीलावती कण्ठाभरणम्
अभावानुपलम्भस्यैव तत्र करणत्व सम्भवादित्याह अभावेति । भावभेद इति । किञ्चिद्भावं गृह्णदेवेन्द्रियं न निरवकाशमित्यर्थः । विनिगमनाभावातू योग्यं सर्वमेव भाव ग्रहिष्यतीन्द्रियमित्याह तुल्येति । तर्हि भावमेव गृह्णाति न त्वभावमपीत्यत्रापि विनिगमनाभाव एवेत्याह अस्येति ।
न्यायलीलावतीप्रकाशः
वग्राहकत्वात् । नचेन्द्रियेणाभावस्य प्रत्यासत्यभावः, इन्द्रियातुविधानेन तज्जनकत्वसिद्धाविन्द्रिय सम्बद्धविशेषणतायाः प्रत्यासत्तित्वकल्पनादिति संक्षेपः । किञ्चैवं भावबुद्धिरव्यभावानुपलब्ध्यैव स्यान्न त्विन्द्रियादित्याह अभावानुपलम्भेनैवेति । तथासतीति । भावाभावयोरग्रहादित्यर्थः । भावभेद इति । कश्चिद्भाव इन्द्रियेण ग्रहिष्यत इत्यर्थः । तुल्येति । भावत्वाऽविशेषेपि कश्चिद्भावोऽनुपलब्ध्या ग्राह्यः कश्चिदिन्द्रियेणेति विवेको न शक्यग्रह इत्यर्थः । अस्याभावेपीति । यथा
न्यायलीलावतीप्रकाशविवृतिः
बत्येव नतु करणं कल्पनीय प्रमाणभावत्वात् । न च भावग्रहेऽप्यभावानुपलब्धिरेव करणमिति वैपरीत्यमेवास्त्विति वाच्यम् । अन्यप्रकारकान्याधिकरणकविरोध्युपलम्भस्यापि विरोधितया तत्प्रकारकतदधिकरणकविरोध्युपलम्मस्य प्रतिबन्धकत्वं वाच्यमिति निर्विकल्पक निराकरणकभावग्रहयोस्तदसम्भवेनावश्यामन्द्रियस्य करणत्वात् । न च कारणत्व एव मानाभावः, जलपरमाणौ पृथिवीत्वाभावग्रहप्रसंगेन योग्यानुपलब्धेः कारणत्वात् । न च योग्यव्यक्ति घटितविशेषणताया एव ग्राहकत्वम्, वायौ चक्षुषा रूपाभावप्रतीत्यनुपपत्तेः । न चैवमभावानुपलब्धिरपि भावग्रहे कारणम् साधिकरणकप्रकारकबुद्धेरिष्ठापत्तेरित्यामप्रेत्याह संक्षेप इति । केचित्तु अभावस्य योग्यानुपलब्धिर्ना भावग्रहे कारणम् अभावग्राहकसामन्यां प्रतियोग्यारोपोऽपि प्रविष्ट इति तज्ज्ञानस्यैव तज्ज्ञानकारणतापतेरात्माश्रयादित्याहुः । तद्युतम् । तव्घाप्यपदस्यासाधारणोपलम्मकपरतया तत्पदेनैव प्रतियो-
- ↑ भेदमादायैव इति पाठान्तरम् ।