शब्दस्तु व्युत्पत्ति समयावगतोऽत्र स्मर्यते । न च तस्य केनचित्संसर्गोऽवभासते, यदि तु तत्संसर्गोऽवभासत इति मन्यसे त-
न्यायलीलावतीकण्ठाभरणम्
सरमित्यत आह --- शब्दस्त्विति । अत्रेति | अनुभवात् पूर्वमित्यर्थः । अनुभासमानः शब्दसंसर्गः कथमध्यपलप्यत इत्यत आह - यदि त्वति ।
न्यायलीलावतीप्रकाशः
सिद्धसाधनम् । न च विशिष्टानुभवत्वेनाव्यवहितविशेषणज्ञानजन्यत्वं साध्यं प्रत्यभिज्ञावत् स्मृत्यैवोपपत्तेरप्रयोजकत्वाच्च । नापि तन एवाव्यवहितविशेषणानुभवजन्यत्वं साध्यं प्रत्यभिज्ञायां व्यभिचारात् । न च तत्कालोत्पन्नरूपविशिष्ट प्रत्यक्षे संस्काराभावेन स्मरणाभावात् पक्षधर्मताबलान्निर्विकल्पकसिद्धावन्यत्रापि सामग्रीतौल्यात्तत्सिद्धिः तत्र हि शुक्लत्वादिविशिष्टवैशिष्ट्यज्ञानं वा अविशिष्टतद्विशिष्टज्ञानं वा । आघे शुक्लत्वादिजातिस्मरणं प्रथमवस्तुतस्तद्विशिष्टज्ञानं ततः शुक्लत्वादिविशिष्टवैशिष्टशिष्टयज्ञानं द्रव्य इति नानुपपत्ति: । अन्त्ये त्वननुभवः शुक्लत्वादिधीविलक्षणशुद्ध रूपादिबोवाऽननुभवात् ।
अथ जागराद्यविशिष्टानुभवे संस्कारद्वारा न पूर्वविशिष्टानुभवः, तज्जन्यविशेषणस्मरणं वा कारणं भवति, उद्बोधकं विना संस्कारस्य स्मरणे विशिष्टज्ञाने वा सामर्थ्याभावादित्युबोधकं वक्तव्यम् । उद्बोधकं चाम्यत्र ज्ञानं दृष्टमिति तदेव वाच्यम् । न च तद्विशिष्टज्ञानमेव तत्रापि विशेषणज्ञान। पेक्षायामनवस्थानादित्यालोचनासद्धिः तंत्र जागरकारणानन्तरं संस्कारोद्वोधोस्तीति तस्यैव क्लृप्तत्वेन तत्कारणत्वात् । अत एव न संस्कारोद्वोधे नियतो हेतुरित्यभिसन्धाय सदृशाऽदृष्टचिन्ताद्याः स्मृतिवीजस्य बोधका इत्याहुः ।
अत्रास्मत्पितृ चरणाः - प्राथमिकं गौरिति प्रत्यक्षं जन्यविशेषणज्ञानजन्यं जन्यविशिष्टज्ञानत्वात् अनुमितिवत् तज्जन्मनि तेन गोत्वस्याऽननुभवान्न तत्र स्मरणसम्भवः । न चाद्यप्रवृत्तिवत् प्राग्भवात्संस्काराद्रोवस्मरणं तत्र जीवनादृष्टेन संस्कारस्योदोधनादिबोधनादिह तु
न्यायलीलावतीप्रकाशविवृतिः
इति भावः । स्मृत्यैवोपपत्तरिति । स्मृतिश्च क्वचिदैहिकात क्वचिश्चजन्मान्तरीयात् संस्कारादिति भावः । अतः परमन्यत्रैव व्याख्यामि-