मिलापरूपं नयनस्य गोचरः । न च स्मृतेस्तत्ता चिह्नभूता ।
अनुभुतवर्णस्मृतौ हरिहरादिस्मृतौ च व्यभिचारात् । न च शब्दसंसर्गः प्रत्यक्षगोचरः ततो जातिसंसर्गमावमत्रावभासते,
न्यायलीलावतीकण्ठाभरणम्
न चेति । अत्रेति । सविकल्पक इत्यर्थः। तर्हि घटोऽयमिति कथं वाचकपुरः-
न्यायलीलावतीप्रकाशः
शब्दयोजनात्मकसविकल्पके तत्रैव प्रत्यभिज्ञाने भासत इत्यर्थः । न च शब्देति । वाच्यत्वलक्षणः संसर्ग इत्यर्थः । वाच्यत्वस्यातीन्द्रियत्वाभ्युपगमात् न व्यवहारः तस्य विकल्पक साध्यत्वात् ।
अथ गौरिति प्रत्यक्षं विशेषणज्ञानजन्यं जन्यविशिष्टज्ञानत्वात् अनुमितिवत् दण्डीति प्रत्यक्षं न दृष्टान्तः विशेषणविशेष्यतत्सम्बन्धानां युगपज्ज्ञान सामग्रीत एव तदुत्पत्तौ दण्डज्ञानजन्यत्वासिद्धेः । ननु विशेष णविशेग्यज्ञानसामग्रीतः साकाङ्क्षोभयविषयकमेकं ज्ञानं विशिष्टज्ञानं तत्र प्रत्यक्षे योग्येन्द्रिय सन्निकदनुमितौ पक्षधर्मताबलाव्घापकताव च्छेदक प्रकारेण शाब्दे योग्यतादिवशात् पदार्थतावच्छेदक रूपेणापूर्वमेव विशेषणं भासते उपमितावप्येवमेवेति न क्वापि विशेषणज्ञानं जनकम् । न च प्रत्यभिज्ञायां तत्रानुभवस्तथा संस्कारस्यानुत्पादादनुद्वोधात्प्रत्यभिज्ञानुत्पादेनोद्बुद्धः संस्कार एव प्रत्यासत्तितया विशेषणमानार्थमिन्द्रिय सहकारी भ्रमो विशिष्टज्ञानमेव न भवतीति । मैवम् । साध्यप्रसिद्धिपदार्थोपस्थितिवाच्यत्वज्ञान तत्तानुभवानामनुमित्यादिहेतुत्वात् साध्यप्रसि ज्यादिकं विनाऽनुमित्यादेरभावात् साध्यादिकं च विशेषणमिति तज्ज्ञानमनुमित्यादिहेतुः । न च परोक्षत्वमुपाधिः प्रत्यभिज्ञायां साध्याव्यापकत्वात् नापि विशिष्टविशेषणकत्वं पक्षेतरत्वात् । अत्र वदन्ति - स्मृतिवत् पूर्वानुभवस्थापि संस्कारद्वारा जनकत्वात्
न्यायलीलावतीप्रकाशविवृतिः
यथाऽभेदाभिमानस्तथाऽत्रापीत्यर्थः । वाच्यत्वलक्षण इति । न च पूर्वशब्दयोजनात्मक इत्यादिना स्वोक्तेन विरोधः । एतस्य मतान्तरत्वात् तथा चोपनीतं वाच्यत्वं चाक्षुषे चेतसि भासत इत्येकम्, तटस्थज्ञानान्तरविषय एतदुव्यावर्त्तकमित्यपरम्, आनुमानिकमेव तदित्यभ्य (न्य १) दिति मतत्रयमेत्रात्रेति भावः। ननु ज्ञानत्वमिति (?)। तथा व विभागो व्याहत