मवभासते न तु तादात्म्यमिति वाच्यम्, घटोऽयमिति प्रत्ययस्यैकत्वनानुभवत्वेन चानुभूयमानत्वात् [१]), प्रत्यभिज्ञानवत् । अन्यथा तस्यापि स्मरणग्रहणात्मकत्वेन एकत्वाभावप्रसङ्गात् । न चेह स्मृतिचिह्नभूतस्तत्ताकार : प्रकाशते, न चाचाक्षुषवाचकाकारोपधानं जातेर्व्यक्तेर्वा चाक्षुषे चेतसि प्रकाशते, न च शब्दार्थयोमिंन्नेन्द्रियवेद्यत्वं व्युत्पत्याद्यपेक्षा च न स्यादिति वाच्यम्, अर्थात्मभूतानात्मभूत (योः) वाच्यवाचकाकारयोर्भेदेऽपि सुसहशत्वेन वकारभेद इवाभेदाभिमानात् [२] । मैवम् त्र्प्रननुभवात् । न ह्ययं पुरोवर्ती घटशब्द इति कश्चिदनुभवति । न चा- न्यायलीलावतीकण्ठाभरणम् पत्तिरित्याह – अर्थात्मभूतेति । उपनीतः शब्दोऽध्यक्षे भासते इत्याचार्य्ये दूषयति - न चाभिलापेति । इन्द्रियान्तरगोचरतां निरस्थति-
न्यायलीलावतीप्रकाशः
लक्षणमसिद्धमित्यर्थः । ननु जातिजातिमन्निर्विकल्पकान्तरं शक्तिग्रहकालावगतशब्दस्मरणं जातिजातिमद्विषयकं सविकल्पकं च भवाते न तु शब्दार्थयोस्तादात्म्यं भासत इत्याशङ्कय निराकरोति - त च्वेति(?)। अन्यथेति । तथा च ततो नाभेदः सिद्ध्येदिति भावः । ततोऽपि न शब्दांशे स्मृतिरित्याह - न चेति । ननु ज्ञानैक्यानुव्यवसायाघटशब्दवाच्यत्वमेव चाक्षुषसविकल्प के भासत इत्यत आह - न चाचाक्षुषेति। नच शब्देति । शब्दार्थयोस्तादात्म्ये सतीति शेषः । अर्थात्मभूतेति । शब्दा थेयोस्तादात्म्येऽपि द्वावाकारौ भिन्नौ स्तस्तथा च भिन्नन्दियवेद्यत्वं व्युत्पत्तिश्चं नानुपपन्नेत्यर्थः । वकारभेद इवेति । औष्ठयहन्त्यौष्ठयवकार इत्यर्थः । न चामिलापरूपमिति । अस्माकं तु संस्कारोपस्थितः शब्दः
न्यायलीलावती प्रकाशविवृतिः
वैशिष्टयाविषयकमिति । समवायातीन्द्रियत्वेऽपि धर्मधर्मिभावात्मकं वैशिष्टयं प्रतीतिविषय इति न जात्यादिविशिष्टप्रतीतावातिव्याप्तिः ।