सामग्री पर जाएँ

पृष्ठम्:न्यायलीलावती.djvu/५६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४८५
न्यायलीलावतीकण्ठामरण-सविवृतिप्रकाशोद्भासिता


दानुपानात् व्यक्तिरियं घटशब्दवाच्या घटजातीयत्वात् पूर्वघटवत्, जातिर्घटेशब्दवाच्या तेन सह गृहीतसङ्गतित्वादिति वाच्यम् एकस्य च तरुशिखरिभूरुहादिनानाकारतादात्म्य प्रतीतिविरोधात् । (इति) निर्विकल्पकम् ॥

 सविकल्पकं योजितनिर्मासि तच्चाध्यक्षं [] साक्षात्कारित्वे-


न्यायलीलावतीकण्ठाभरणम्

'तेन' घटशब्देन । गृहीतसङ्गतित्वादिति । प्रसिद्धसङ्गतित्वादित्यर्थः । एकस्यार्थ शब्दवाच्यवदनेकत्वस्य एकशब्द वाच्यत्वमपि शब्दार्थतादात्म्ये विरुद्धमित्याह - एकस्येति ।

 'योजिततिर्भासि' वैशिष्ट्यविषयकम् । सविकल्पकप्रत्यक्षविप्रतिपन्नं वौद्धं प्रत्याह - तच्चेति । अध्यक्षमपत्यर्थः । ननु निर्वि

न्यायलीलावतीप्रकाशः

तादृशस्य संस्कारोद्वोधकस्याभावात् । अथ निर्विकल्पककारणत्वाभिमतगोस्वेन्द्रिय सन्निकर्ष एव तथा तर्ह्यन्यत्र क्लतकारणभावादोत्वेन्द्रिय सन्निकर्षाद्गोत्वानुभव एव स्यात् स्मरणसामग्रीतोऽनुभवसामग्या बलवस्त्रातं । न च तत्सविकल्पकं पूर्व्वे विशेषणज्ञानाभावादित्यर्थान्निर्विकल्पकम् । अत एव तत्र ज्ञानत्वेन न विशिष्टज्ञानत्वानुमानं कारणबाधेन बाधात् । ननु विशिष्टज्ञानत्वादित्यत्र विशिष्टेति विशेषणं व्यर्थ व्यावर्त्त्यस्याविशिष्टज्ञानस्यासिद्धेः । सिद्धौ वानुमानवैयर्थ्यात् ज्ञानत्वं च स्वतोऽसिद्धव्याप्तिकमिति चेत्, न, येन विशेषणेन विना व्याप्तिर्न गृह्यते तस्यैव सार्थकत्वात् व्यभिचारवारक विशेषणसार्थकत्वेऽपि तस्यैव मूलत्वात् । इहापि ज्ञानत्वविशेषणज्ञानजन्यत्वयोर्विशेषणं बिना व्यायप्रहादनवस्थानात् । अत एव चक्षुस्तैजसं गन्धादिषु रूपस्यैव व्यञ्जकत्वादित्याद्यसिद्धिवार कमपि विशेषणं सा र्थकं तेन विना साधना प्रसिद्धेर्याप्त्यग्रहादिति ।

 योजितनिर्भासीति । 'योजितो' जात्यादिविशिष्टो निर्मासी भासमानो

न्यायलीलावती प्रकाशविवृतिः

ति । वस्तुतो यो विशिष्टः स एव निर्विकल्पके भासत इत्यत आह -


  1. ० भासितत्वाध्य । ० भासित स्वाध्य० ।