सामग्री पर जाएँ

पृष्ठम्:न्यायलीलावती.djvu/५४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४७४
स्थायलीलावती


कर्तुः कर्तव्यतातिशय दर्शनाददेहिवद्देहिनोऽपि सर्वकर्तृतापत्तेः। कायव्यूहादिकृतेरप्रामाणिकत्वात् । तथाविधादृष्टवशादेवोपपत्तेः । अमुक्तस्यैव वा कर्मणः क्षयाद्विपरीतनिश्चयाच्च । ज्ञानजातीयं कति


न्यायलीलावतीकण्ठाभरणम्

तिकूलतर्कान्तरमाह- कतुरिति । कृतितारतम्य विश्रान्तौ कस्यचित् सवर्कर्त्तृत्वं स्यादित्यर्थः । ननु कायव्यूहमन्तरेण यावत्यष्टानि तेषां च तत्तच्छरीरावच्छेदेन भोगं ज्ञात्वा कायव्यूहानुष्ठानमपि कथं स्थादित्याशङ्कयाह – कायव्यूहेति । अप्रामाणिकत्वादिति । अदृष्टानां तत्त्वज्ञाननाश्यतया न भोगार्थं कायव्यूह इत्यर्थः। ननु तारतम्य नो वै शरीरानिबद्धनियमे शुरेत्यादिग्मृतिः (?) वादरसौभरिप्रभृतीनां च कायव्यूहमसिद्धिश्च कथं स्यादित्यत आह - तथाविधेति। तथा विधत्वं' कायव्यूहनिर्वाहकत्वम् । अथ वा कायव्यूहस्याचिरेण भोगप्रयोजकं (कत्वं ? ) तच्च नास्ति कर्म्मणः तत्त्वज्ञाननाश्यत्वात्। तथा च स्मृति: "ज्ञानाग्निः सर्वकर्म्मानि भस्मसात कुरुतेऽर्जुन" इत्याह --- अभुक्तस्यैवति । विपरीतति । ज्ञानस्यासर्वविषयत्वनिश्चयादित्यर्थः । एतदेव उपपादयति - ज्ञान-

न्यायलालावतीप्रकाशः

विषयकज्ञानजनकत्वेनेत्यर्थः । ज्ञातुर्ज्ञातव्यातिशयदर्शनाद्यदि सार्व्वइयं साध्यते तत्र प्रतिवन्दिग्रा ( मा ? ) ह - कर्त्तुरिति । अदेहिवदिति । त्वदभिमतेश्वरवदित्यर्थः । सार्वज्ञ्यं विनापीति शेषः । स्वात्मनो बहून्यदृष्टानि साक्षात्कृत्य भोगेन तत्क्षयार्थं योगी कायव्यूहे (हं?) करोति अद्दष्टसाक्षात्कारश्च न सार्वज्ञ विनेति योगिसिद्धिरिति यदि ब्रूयात्तत्राह- कायव्यूहेति ।

 अथागमक्ष (स्त ? ) त्र मानं तत्राह - तथा विषे (ध ? )ति । तपःप्रभावादपीति द्रष्टव्यम् । किञ्च कर्मफलभोगार्थे काययोगपद्यं [] कर्म चाइत्तफलमेव तत्त्वज्ञानाद्विनश्यतीत्याह-- अभुक्तस्यैवेति । विपरीतनिश्चयमेव स्फुटयति - ज्ञानजातीयमिति उकारवेति (?) चक्षुरादीनां शक्तिविर-

न्यायलीलावतीप्रकाश विवृतिः

परमाणुईव्यमिति पक्षनिर्देशो बोद्धयः । प्रमायामिति । अनुभव इत्यर्थः । मनुष्यादिवदिति मूलम् । यद्यपि योगिनः करितुरगादिशरीरोपग्रहाद त्रेष्टापत्तिस्तथापि तच्छरीरावच्छेदेन सार्वइयं नेष्यत इत्यभिसन्धा- नेनापाततः तदेवापाद्यम्। इष्टापत्तिमाशङ्क्याह- सार्वज्ञ विनापीति । तथा


  1. स्वीकरणीयामिति शेषः ।