सामग्री पर जाएँ

पृष्ठम्:न्यायलीलावती.djvu/५४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४७३
म्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता


त्वात् । ना नापुरुषाध्यक्षत्वे असर्वज्ञत्वात् । अन्यथा प्रतिबन्धाभावात् । वेदनतारतम्यस्य कचिद्वहुज्ञ एव विश्रान्ते । अपकर्षतारतम्यादेकमात्रज्ञतापत्तेश्च । मनुष्यादिवत् क्कचित्तुरगादिजा [१]तिभेदेऽपि सार्वज्ञ्यापत्तेः । भावनाभ्यासस्य च भाव्यविषयत्वेन सर्वविषयज्ञानजनकतानुपपत्तेः । तथैव शक्तेरवसायात् ।


न्यायलीलावतीकण्ठाभरणम्

साक्षात्कारोऽपि मानस एव स्यादिति भावः । सिद्धासहकारितथा च विपर्थ्ययो यथा तथा योगजधर्म्मसहकारितया विपर्य्ययः स्यान्न तु प्रमेत्याह - स्वप्नस्य चेति । स्मृतानां पदार्थानां विपर्थ्यासः स्मृतिविषये वा विपर्थ्यास इत्यर्थः । परमाण्वादयः प्रत्यक्षा इत्यत्र पृर्व्वानुमाने साध्यं विकल्पतो दूषयति - नानेति । तथा च न सार्वज्ञ्यमित्यर्थः । अन्यथेति । यद्यत् प्रमेयं तदेव पुरुषाध्यक्षमिति प्रतिव न्धासिद्धिरित्यर्थः । वेदनतारतम्यं परिमाणतारतम्यवत् क्वचिद्विश्रान्तं तथा च तत् यत्र विश्रान्तं स्यात् स एव योगीत्याशङ्कयाह --- वेदनेति । सिद्धसाधनमुक्त्वा प्रतिकूलतर्कमाह - अपकर्षेति । तर्कपराहतान्तरमाहमनुष्यादिवदिति । सामग्रीतौल्यादिति भावः । संस्कारवशात् परोक्षमध्यपरोक्षं स्यादिति सार्वयमाशङ्कयाह - भावनेति । तथैवेति । संस्कारस्थ स्वविषयमात्रे ज्ञानजननशक्तेरवसायादित्यर्थः । तारतम्यविश्रान्तौ प्र

न्यायलीलावतीप्रकाशः

नादित्यर्थः । स्वप्नस्य चेति । स्मृतानां पदार्थानामसंसर्गाग्रहरूपत्वादित्यर्थः । न त्वयथार्थे स्मृतित्वं स्मरामीति तदनुव्यवसायापत्तेः । तथा च प्रमामात्र एव मनसो वहिरस्वातन्त्र्यमिति भावः । मेयत्वाच्च परमाणूनामध्यक्षत्वमात्रं वा साध्यं एक पुरुषैकाध्यक्षविषयत्वं वा । आद्ये दूषणमाह - नानेति । नानापुरुषाध्यक्षत्वेनार्थान्तरान्नैकपुरुषाध्यक्षत्वसिद्धिरित्यर्थः । अन्त्ये – अन्यथेति । एक पुरुषैकाध्यक्षविषयत्वे साध्य इत्यर्थः । वेदनतारतम्यं क्वचिद्विश्रान्तं तारतम्यत्वादित्यत्र सिद्धसाधनमित्याह – वेदनेति । प्रतिकूलतर्कपराघातश्चेत्याह - अपकर्षति । सर्वविषय कैकज्ञान कारणानुपपत्तिमाह - भावनेति । तथैवेति । भाव्यमात्र-


  1. ↑ ०त् करितु ।