सामग्री पर जाएँ

पृष्ठम्:न्यायलीलावती.djvu/५५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४७५
न्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासित


पयविषयतानियतं []तेन समं निरुपाधित्वात् यदेवं तदेवं यथा धूमो वह्निना[] । विपक्षे तूक्ता एव तर्का: । तथा च सर्वमिदमनुपपन्नमिति चेत्, मैवम् विरोधितणां विपर्ययापर्यवसानात । अणू नामप्रत्यक्षत्वे प्रत्यक्षत्वप्रमेयत्वयोर्निरुपाधिसाहचर्यव्याको-


न्यायलीलावतीकण्ठाभरणम्

जातीयमिति । ज्ञानत्वं कतिपय विषयत्वव्याप्तमित्यर्थः । तर्का इति । चक्षुराहीना परमाणुपु शक्तिविरह इत्याघुन्नेयम् । चक्षुरादयो यदि स्व (I?)योग्यं गृह्णीयुस्तदा रसादिकमपि गृह्णीयुरित्यादयः । सर्वमिदमिति । योगी तज्ज्ञानं सर्वविषयं तच्चक्षुरादयः परमाण्वादयो विषयाः कायव्यूहः योगजो धर्मक्ष्चत्याघसङ्गतमित्यर्थः । विरोधीति । योगिनां चक्षुर्यदि परमाणो वत्तेत तदा रसेऽपि प्रवर्त्तेत । तस्मान्न परमाणावपि प्रवत्तते इत्यत्र योगिसिद्धौ तच्चक्षुरादे: परमाण्वप्रवृत्तिसिद्धेरित्यर्थः । परमाणवः कस्यचित् प्रत्यक्ष: प्रमेयत्वादित्यत्रानिरुपाधिसम्बन्धशालित्वरूपप्रसङ्ग एव विपक्षबाधक तर्क इत्याह - अणूनमीत | रूपवत्वं म-

न्यायलीलावतीप्रकाशः

हादित्यादय इत्यर्थः । अत्र परमाणुर्यदि प्रत्यक्षद्रव्यं स्यात् महान् स्यान्न चैवं तस्मान्न प्रत्यक्षद्रव्यमित्यत्र निर्गुणत्वमुपाधिः । यदि योगिचक्षुषि शक्तिविरह आपाद्यते तदाऽऽश्रयासिद्धिः अस्मदादिचक्षुषि तदापादने इष्टापत्तिरित्याह - विरोधीति । अणूनामिति । नन्वणबोपीश्वरप्रत्यक्षा ज्ञानान्तरोपनीतप्रत्यक्षाश्च जन्यसविकल्पकाजन्य-

न्यायलीलावती प्रकाश विवृतिः

विधेतीति । युगपद्भो(ग?) जनकेत्यर्थः । अत्र परमाणुरिति । परमाणुर्द्रव्यमित्यर्थः । विपर्ययापर्यवसानं तदसमीचीनत्वेनातस्तदर्थमुपाधिमाह --- निर्गुणत्वमिति । न चाकाशादौ साध्यापाक (व्यापक ?) त्वं परमाणुवत् तस्यापि प्रत्यक्षत्वादिति भावः । उपाधिः साधनावच्छिन्नसाध्यव्यापक इति क्वचित्पाठस्तत्र चानुमातृमते कालादौ साध्याब्यापकत्वपरीहाराय तदुक्तम् । नन्वणवोऽपीति । यद्यपीश्वरादिकं परो न मनुते तथाप्येतदनुमानेन तस्यैव सिद्धेरर्थान्तरतया न योगिसि-


  1. ० तानिष्ठं ते० ।
  2. वह्वीन् ।