श्यमानताया व्यपदशेजनितज्ञान विषयताऽनतिरेकात । ज्ञानजनितव्यवहारगोचरत्वमिति चेन्न, इच्छादिरूपस्य व्यवहारस्योपेक्षाज्ञाने [१] ऽभावात् । तद्रोचरसंस्कारस्मृतिजनकत्वमिति[२] चेत्, [न, ] स्मृतेरपि तद्गोचरताया अनिरुक्तेः ।
व्यवहारजननयोग्यत्वमिति चेत्, न, योग्यताया एवाऽनवगमात् । सामग्रीविशेषप्रसूतत्वमिति चेत्, न तावत्सामग्या
असाधारणे ज्ञानरूपे जनकत्वम् [३] अन्वयव्यतिरेकेयारे भावात् । नाप्यवान्तर विशेषे [४] नीलज्ञानत्वरूपाऽ परसामान्यस्याभावात् । नीलविषयतारूपस्य विशेषस्यासिद्धेः । स्वरूपमेव
ज्ञानस्य विषयित्वं नीलादेक्ष्च विषयत्वमिति चेत्, न, स्वरूपस्य
सर्व प्रत्याविशेषात् ग्राह्य ग्राहकव्यवहारनियमानुपपत्तेः [५]
नीलादिवस्तुस्वरूपस्य सर्वसाधारणत्वोपलम्भेन ज्ञानस्यापि सर्वसाधारणत्वात् । सर्व विषयताप्रसङ्गाच्च । ततः प्रकाशतादात्म्यमेव
प्रकाशमानत्वम् । नन्वेवं सति साध्याविशिष्टत्वं प्रकाशमानत्वज्ञा-
न्यायलीलावतीकण्ठाभरणम्
सिद्धेरित्यर्थः । स्मृतेरपीति । स्मृतिविषयत्वातिरिक्तस्य तद्गोचरत्वस्याभावादित्यर्थः । व्यवहारेति । तथा च उपेक्षाज्ञानेऽपि ततूसत्त्वादिति भावः | योग्यताया इति । तदवच्छेदकरूपाऽपरिचयादिति भावः । तत्तन्नीलादिव्यक्तिविषयज्ञानसामग्रीप्रभवत्वं तद्विषयत्वञ्च दुर्ग्रहं नीलज्ञानसामग्रीप्रसूतत्वं नीलविषयत्वमित्यपि तथा नलिज्ञान स्वत्वादेः सामान्यस्याभावादित्याह--- न तावदिति । नीलविषयकं ज्ञानमेवं सति पीतविषयकमपि स्यात् स्वरूपस्याविशेषादित्यर्थः । एतदेव प्रपञ्चायति -- ग्राह्येति | विज्ञानवादी स्वपक्षमुपसंहरति-तत इति । यत् प्रकाशते तद्विज्ञानमेवेति साध्याविशेषं शङ्कते– नन्विति । धर्म्यभेदेऽपि व्यावृ-