सामग्री पर जाएँ

पृष्ठम्:न्यायलीलावती.djvu/५३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४६३
म्यायलीलावतीकण्डाभरण- सविवृतिप्रकाशोद्भासिता


तद्धि न तावदनुभवादेव व्यवस्थाप्यम् । नीलाकारद्वयाननुभवात् । नाप्याकारकादाचित्कत्वात् । तस्य भ्रान्तप्रत्ययाकारवद्वासनापरिपाककादाचित्कत्वेनैवोपपत्तेः । ज्ञानसमानरूपत्वे च बाह्यस्य ज्ञानत्वापत्तेः । सादृश्यं समानत्वमिति चेत्, न, विधिरूपस्य तस्यासिद्धे: [१] । अनीलव्यावृत्तिनलधियो: [२] सादृश्यमिति चेत्, किमनीलं बाह्यनीलाकारप्रच्युतिर्वा नीलज्ञानप्रच्युतिर्वा ज्ञानाज्ञानसाधारणनीलमात्रप्रच्युतिर्वा । नाद्यः । ज्ञानस्य [३] बाह्यनीलप्रच्युतिनिवृत्तिरूपत्वाभावात् । न द्वितीयः ।


न्यायलीलावतीकण्ठाभरणम्

गर्भत्वादिति भावः । वाह्यनीलादिभेदमभ्युपगम्याह --तद्धीति । बाह्यनीलानुभवे हि तत्सरूपमिदं ज्ञानमित्यनुभूयेत स एव नास्तीत्यर्थः । ननु नीलाकारं ज्ञानं कदाचिदुत्पद्यते तच्च नीलसन्निकर्षाधीनमिति शङ्कते-नापीति । व्यवस्थाप्यमित्यनुषज्यते । अत्रान्यथासिद्धिमाह--तस्येति । कामिनीं विनापि यथा कामिनीभ्रमो वासनातस्तथा नीलप्रत्ययोऽपीत्यर्थः । अत्यन्तसारूप्ये दोषमाह - ज्ञानेति । अनात्यन्तिकत्वं शङ्कते --- सादृश्यमिति । नीलतद्बुद्ध्योर्भावरूपधर्म्मघटितं न साधर्म्यमित्याह - विधीति । व्यावृत्तरूपं शङ्कते - अनीति । वाह्यं यन्नीलतद्भिन्नं वा ज्ञानं यन्नीलं तद्भिन्नं वा अनीलं यद्व्यावृत्तिरुभयोः सारूप्यं स्यादिति विकल्प्य परिहरति —- किमिति । बाह्यनीलभिन्नमनीलं ज्ञानमपि न तद्वयावृत्तिस्तदन्योऽन्याभावो ज्ञान एवेत्याह – ज्ञानस्यैवेति । ज्ञानरूपनीलभिन्नमनीलं वाह्यमपीति तदनीलव्यावृत्तिरुपं कथं

न्यायलीलावतीप्रकाशः

त्रविषयत्वेन वाह्यानालम्बनत्वादित्यर्थः । तदेव स्फुटयति-तद्धीति । ज्ञानसमानरूपत्व इति । ज्ञानान्यूनानतिरिक्तरूपत्व इत्यर्थः । बिधिरूपस्येति ।

न्यायलीलावती प्रकाशविवृतिः

चकारोऽस्ति । तत्र एककालसामग्रीकत्वादेकसामग्रीकत्वाश्चेत्यर्थः । नीलादिभेदस्येति मूलम् नीलादिलक्षणस्य विशेषस्येत्यर्थः । गुणत्वादेस्ताह-


  1. ↑ विधिरूपस्यासिद्धेः।
  2. ↑ ०लानीलधि० ।
  3. ↑ ज्ञानस्यैवेति कण्ठाभरणधृतः पाठः ।