सामग्री पर जाएँ

पृष्ठम्:न्यायलीलावती.djvu/५३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४६२
न्यायलीलावती


ते तद्विज्ञानं यथा प्रकाशः । प्रकाशन्ते च नीलादयः । न च ज्ञानाद्भेदे प्रकाशमानत्वं सम्भावनीयम् । तद्धि न तावत्प्रकाश प्रति कारणत्वं तेन समानसामग्री प्रतिबन्धो [] वा । रूपविज्ञाने [] चक्षुषोऽपि प्रकाशतापत्तेः । नापि प्रकाशसारूप्यं सा- कारत्वे वित्तीनां बाह्यनीलादिभेदस्यासिद्धेः कस्य सारूप्यम् ।


न्यायलीलावतीकण्ठाभरणम्

खं 'शातेतरं दुःखम् | आदिपदात् प्रमाणान्तरविषयोपग्रहः । यत् प्रकाशत इति । प्रकाशविषयत्वेन पक्षता प्रकाशमानत्वं हेतुः । न च पक्षतावच्छेदकहेतुतावच्छेदकयोरभेदः प्रकारयोर्भेदात् । न च ज्ञानांशे सिद्धसाधनं प्रकाशविषयत्वावच्छेदेन तत्रापि ज्ञानत्वस्यासिद्धस्यैव साधनात् । अत एव ज्ञानभिन्नत्वेत्र पक्षत्वे बाधः। विपक्षबाधकतर्कमाह-~-ज्ञानादिति । तेनेति । प्रकाशेन (स?) मानसामग्रीकत्वमित्यर्थः । उभयत्रदोषमाह - रूपेति । पुञ्जापुञ्जोत्पत्तिरिति नयेन चक्षुषोऽपि प्रकाशजनकत्वात् तदभिन्न सामग्रीकत्वाञ्चेत्यर्थः । कस्य सारूप्यमिति । तस्य भेद-

न्यायलीलावतीप्रकाशः

षयो दर्शितः । यत्प्रकाशत इति ज्ञानत्वेन यदुभयपक्षसम्प्रतिपन्नं तद्भिन्नं पक्षस्तेन विषयमात्रं यदि पक्षस्तदा ज्ञानांशे सिद्धसाधनं ज्ञानभिन्नस्य च पक्षत्वे यदि भेदसिद्धिस्तदा बाघः, तदसिद्धौ पक्षवासिद्धिः, घटमाञं यदि पक्षस्तदाऽन्येषां ज्ञानत्वासिद्धि: अनु (ग) धर्मोपसंग्रहं विना च सर्वेषां पक्षत्वासिद्धिरित्यपास्तम् । विपक्षे बाधक माह-- न चेति । समानेति । ज्ञानरूपयोरेक सामग्री जन्यत्वमित्यर्थः । रूपेति । रूपज्ञानं प्रति चक्षुषः कारणत्वात् क्षणभङ्गपक्षे पुञ्जात्पुञ्जोत्पत्तिरिति म्यायेन चाक्षुषज्ञानकाले चक्षुःसामग्या अपि सत्त्वात् रूपचक्षुषोस्तुल्यसामग्रीकत्वाच्चेत्यर्थः । साकारत्व इति । बुद्धि (द्धी ? ) नां स्वाकारमा-

न्यायलीलावती प्रकाश विश्वतिः

प्रकाशमानत्वमिति । प्रकाशविषयत्वमित्यर्थः । तञ्च कारणत्वादिरूपेण विकल्पितम् । द्वितीयविकल्पनिरासाभिप्रायेण व्याचष्टे - क्षणभङ्गेति । रूपचक्षुषोरिति । रूपज्ञानचक्षुषोरित्यर्थः । क्वचित्पाठोऽपि तथा । क्वचिच्छेषे


  1. ०मग्ज्या प्रति० ।
  2. रूपपरिज्ञा० । रूपरूपिज्ञा० ।