सामग्री पर जाएँ

पृष्ठम्:न्यायलीलावती.djvu/५३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४६१
न्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता


 ननु तथापि जाग्रत्प्रत्ययाः निरालम्बनाः प्रत्ययत्वात् स्वप्नप्रत्ययवदिति विद्याऽविद्याविभागोऽनुपपन्न इति चेत्, किमिदं निरालम्बनत्वम् । असत्प्रकाशशीलत्वं वा अन्यथाख्यातिरूपत्वं वा स्वात्मालम्बनत्वं वा । न तावदाद्यौ । प्रति बन्धप्रत्ययस्य निरालम्बनत्वे हेतोः प्रतिबन्धासिद्धिप्रसङ्गात् । तत्त्वालम्बनत्वे [तु] तेनैव व्यभिचारात् । न तृतीयः । स्वप्नपद्धतिपतितानां विज्ञप्तीनां बाह्यालम्बनत्वेन स्वात्मालम्बनत्वासिद्धेः । तदसिद्धम् । सर्वस्यैव गौरगान्धारमधुरसुकुमारसुरभि[१] शातेतरादिभेदस्य वेदनस्वभावत्वात् । तथा हि यत्प्रकाश-


न्यायलीलावतीकण्ठाभरणम्

 तथापीति । जाग्रत् प्रत्ययानां मिथ्यात्वे सत्यपीत्यर्थः । अव्याघातकत्वमस्य हृदि निधाय विकल्पयति - किमिति | स्वात्मालम्बनत्वमिति । 'आत्मा' ज्ञानं तदालम्बनत्वमित्यर्थः । 'प्रतिबन्धो' व्याप्तिः । तेनैवेति । प्रतिबन्धप्रत्ययेनैवेत्यर्थः । तत्रापि बाह्यालम्बनत्वमसहमानो योगाचारः प्रत्यवतिष्ठते -- तदिति । बाह्यमित्यर्थः । ननु षड्भिरपीन्द्रियैर्वाह्यं विषयीक्रियत एव तथा च कथं तदसिद्धमित्यत आह - सर्वस्यैवेति । चक्षुःश्रोत्ररसनत्वगिन्द्रियप्राणमनसां यथासंख्यं ये विषया गौरादयस्ते वेदनरूपा एवेत्यर्थः । 'शातं' सु-

न्यायलीलावतीप्रकाशः

त्यन्ये । विज्ञानवादिनमुपस्थापयति तदसिद्धमिति । गौरेत्यादिना क्रमेण चक्षुःश्रोत्ररसनस्पर्शनघ्राणमनोविषयो दर्शितः । इतरपदेन गौरबत्वादेस्तत्तदिन्द्रियग्राह्यस्य संग्रहः । आदिपदेन प्रत्यक्षान्य प्रमाणवि-

न्यायलीलावतीप्रकाशविवृतिः

अन्य इत्यरुचौ । तद्वीजन्तु जन्यतावच्छेदकजातिप्रतीतौ सेव लक्षणमप्रतीताविमपि दुर्ग्रहमिति । विमागोऽनुपपन्न इति मूलम् । निरालम्वनत्वेनोभयोरव्यविद्यात्वादिति भावः । इतरपदेनेति । एतेन शातशा. तेतरादीति पाठोऽप्रमाणिक इति ध्येयम् ।


  1. ↑ ०भिशातशातेतरा० ।