त्वोपभ्रत्रापि तुम्षन्वात्व । अनादित्वेन पृवोंत्तरभावस्यानियामकत्वात् । अव्यभिचारित्वस्य च स्वप्नेऽप्यप्रतिक्षेपात् । वाधात्
तत्प्रतिक्षेप इति चेत् न, बाधस्यैवासिद्धेः । जाग्रदवस्थायां सजातीय प्रबन्धसंवादात् स्वप्नस्य काकतालीयसंवादादिति चेत्,
न, काकतालीयसंवादवतोऽपि चिरदृष्ट [१]पुनर्दर्शनादेरव्यभिचा
रात् । प्रबन्धसंवाद वतोऽपि दीपैकत्वनिर्भासादेर्व्याभिचारात् । अर्थ -
न्यायलीलावतीकण्ठाभरणम्
ग्रदनुभवेन बाध्यत इत्यत आह - अनादित्व इति । अव्यभिचारी जाप्रत्प्रत्यय: स्वप्नबाधकः स्यादित्यत आह - अव्यभिचारित्वस्येति । स्वप्नज्ञानानां बाधितत्वेनाव्यभिचारित्वमसिद्धमित्याह - बाघादिति । बाधितत्त्वप्रकाराणां दूषितत्वात्तदसिद्धरित्याह –- नेति । संवादभूयस्त्वालपस्वाभ्यां विशेष इति शङ्कते - जाप्रदिति । संवादा भूयस्त्वेऽव्यव्यभिचारित्वं दृष्टमित्याह – काकतालीयेति । संवादभूयस्त्वेऽपि व्यभिचारमाहप्रबन्धेति । जाग्रदिति वैपरीत्यमेवाह -- एकत्वेति । एक एवायं दीप इति प्रत्यभिज्ञाभूयस्त्वेऽपि व्यभिचारादित्यर्थः । जाग्रहशादृष्टेऽर्थक्रियासंवादो यथा न तथा स्वप्न इत्याह - अर्थक्रियेति । स्वप्नेऽपि तदस्तीत्याह--
न्यायलीलावतीप्रकाशः
'न विशेष्यते' न व्यावर्त्तकरूपवदित्यर्थः । उभयत्रेति । स्वप्नज्ञान स्यापि जाग्रदवस्थाज्ञानोपदर्शितार्थविपरीतार्थोपदर्शकत्वादित्यर्थः । ननु पूर्व ज्ञानं बाध्यमुत्तरं ज्ञांन बाधकमित्यत आह–अनादित्वेनेति । अव्यभिचारित्वमपि साधारणत्वान्न नियामकमित्याह-अव्यभिचारित्वस्येति । भावाभावाभ्यामित्यनेन स्वप्नजागरात्मकमित्यत्र यथायोग्य-
न्यायलीलावतीप्रकाशविवृतिः
हिर्भावापत्तेरिति । साध्याविशेषमाशङ्कयाह-- न व्यावर्त्तकेति । सव्येत्तरेति मूलं सामान्य व्यायभिप्रायकमन्यथा सव्येतरपदव्यर्थतापत्तेः । जाप्रदवस्थाया इत्यादिमूले पञ्चमीद्वयम् । असिद्धेरित्यसिद्धमिति साध्यान्वयेन योजनीयम् । मिथ्याप्रत्ययप्रवाह इति मूलेन दूषितस्यापि
- ↑ चिरादृष्ट० ।