सामग्री पर जाएँ

पृष्ठम्:न्यायलीलावती.djvu/५२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४५४
न्यायलीलावती


 कथं पुन: स्वप्नज्ञानमविद्या यतो यद्विद्यातो न विशिष्यते तद्विद्यात्मकं यथा सव्येतर कामिनीकुच कलशनिर्भासः [] । न विशिष्यते च स्वप्नज्ञानं विद्यातः । इदं बाधितमिति चेत्, न, स्वरूपविषयफलापहारात्मकबाधविरहे विपरीतार्थोपदर्शनमात्र-


न्यायलीलावतीकण्ठाभरणम्

 अविद्या चातुर्विध्य माक्षिपति--कथमिर्ति । 'न विशिष्यते' न व्यावर्त्तकधर्म्मवत् । इदमिति । स्वप्नज्ञानमित्यर्थः । बाधितत्वमेव विद्याव्यावर्त्तकमिति भावः । स्वरूपेति । स्वप्नज्ञानस्य स्वरूपं न बाधितमनुभूयमानत्वात् | विषयोऽपि न बाधितः विषयाणां यथास्थानं स्थितत्वात् । कामिनीविषयक स्वप्नञ्ज्ञनस्य सुखादेः फलस्य सत्त्वादित्यर्थः । विपरीतेति । जाग्रदनुभवविपरीतार्थोपदर्शनेन यदि स्वप्नज्ञानस्याविद्यात्वं तदा विपरीतमेव किं न स्यादित्यर्थः । ननु पूर्वे स्वप्नज्ञानमुत्तरेण जा-

न्यायलीलावतीप्रकाशः

 अत्राहु: । (वि?) शेषतो ऽनुल्लिखितनानाकोटिकं ज्ञानमनध्यवसायः । अत्रापि विशेषतः कोट्युल्लेखो नास्ति किञ्चित्त्वस्य सामान्यरूपत्वात् किंस्विदित्यत्रापि तथा विशिष्टव्यतिरेकस्योभयत्र सत्त्वात् । विशेषेति । किञ्चित्वेना सत्कोटेरप्युल्लेख च्चेत्यपि मन्तव्यम् ।

न्यायलीलावतीप्रकाश विवृतिः

कोट्यनुल्लेखः । विशिष्टेति । एकत्र विशेषतः कोट्यल्लेखाभावाद( प ? ) रत्र द्वयोर्विशेषत उल्लेखाभावादिति भावः । केचित्तु यत्र सामान्यतो विशेषतोच्या वाच्यत्वोल्लेखः लोऽनध्यवसायो यत्र च पनसत्वादेरर्थोल्लेख: संशयः स इति लक्षणमाहुः । तदयुक्तम् । असाधारणधर्मजज्ञानस्यैवानध्यवसायत्वेनार्थविषयस्यापि ताद्दशस्थानध्यवसायात् । केचित्तु व्यतिरेकद्वपप्राधान्येऽनध्यवसायोऽन्वयद्वयप्राधान्ये तु संशय इत्येव भेदकम् । प्रथमस्याव्यावृत्तत्वेन जातधर्मजत्वादपरस्य चानुवृत्तत्वेन ज्ञतधर्मजत्वात्तथात्वसम्भवादित्याहुः । तदप्ययुक्तम् । विप्रतिपत्तिजस्य समप्रधानोभयकत्वेनोभयव-


  1. ० शमतिभासः ।