सामग्री पर जाएँ

पृष्ठम्:न्यायलीलावती.djvu/५३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४५३
न्यायलीलावती


क्रिया संवाद विसंवादै र्जागरणस्वप्नलक्षणमिति चेत्, न, स्वमपरिदृष्टजलादेरपि पानावगाहनाद्यर्थक्रियादर्शनात् । जाग्नदवस्थायां तदनुपलम्भेन बाधात् तासायर्थक्रियाणामसम्बद्ध [१] मिति चेत्, म, प्रबुद्धदृष्टार्थक्रिया चक्रस्यापि स्वप्ने विपर्यासोपलम्भाव । मिथ्याप्रत्याप्रत्ययप्रवाहः स्वप्नः, तद्विपरीतप्रत्ययस्तु जागरणमिति चेत्, न, मिथ्याप्रत्ययप्रवाहस्यापि पतिशङ्खगोचरस्य जागरणत्वात् । प्रचुरतरमिथ्या प्रत्ययप्रवाहः स्वप्नो भूरियथार्थप्रत्ययप्रवाहो जागरणमिति चेत्, न, उन्मादाद्यजित [२] प्रचुरतर विपर्ययप्रत्ययप्रवाहस्यापि जागरत्वात् । बहिरिन्द्रिय प्रवृत्तिभावाभावाभ्यामर्जित ज्ञानै स्वप्नजागरात्मकमिति चेत्, न, योगिनां ध्यानसम्ततेरपि स्वप्नत्वप्रसङ्गात् । सिद्धोपप्लुतान्तःकरणजं ज्ञानं स्वप्नोऽन्यच्च जागरणमिति चेत्, का सिद्धा[३] । निरिन्द्रियप्रदेशे मनसोऽवस्थानम् । कुत-


न्यायलीलावतीकण्ठाभरणम्

स्वप्नेति । स्वप्नदृष्टार्थक्रियापि जाग्रदवस्थाबाध्येत्याह- प्रबुद्धेति । मिथ्यात्वसत्यत्वाभ्यां तयोर्भेद् शङ्कते — मिथ्येति । मिथ्यात्वस्य जागरेऽपि ग तत्वेन व्यभिचारमाह -- नेति । मिथ्यात्वं स्वप्नस्य जागराद् भेदकं प्रचुरत्वेन विशिनष्टि--प्रचुरेति । प्रचुरत्वविशेषितमपि व्यभिचारीत्याह-- तन्मात्रेति । बहिरिन्द्रियजन्यत्वं जाग्रत्प्रत्ययात् स्वप्नस्य भेदकमित्याह - बहिरति । तत्रापि व्यभिचारमाह - नेति । बहिरिन्द्रियानवच्छिन्नाधारप्रदेशवर्त्तमानेन मनसा जनितत्वं स्वप्नस्य भेदकं शङ्कते-- सिद्धति । 'उपप्लवो' बहिरिन्द्रियासमवधानम् । इदमपि न भेदक इ (मि ?) त्यनुशयेनापृच्छति -- केति । एवं तर्हि स्वप्नज्ञानधाराया अवच्छेदात सुषुप्तिः कदापि न स्यादित्याशयेन पृच्छति - कुत इति । सिद्धान्ती सुषुतिमुप

न्यायलीलावतीप्रकाशः

मित्यन्वयः। कुतस्तहीति । निरिन्द्रियप्रदेशस्थितस्यापि मनसो ज्ञानजन

न्यायलीलावतीप्रकाशविवृतिः

पुनराशङ्कय दूषणान्तरदानायेत्यवधेयम् । निरिन्द्रियेति । तथा च ज्ञाना-


  1. ↑ मसत्यत्वमि० ।
  2. ↑ तन्मर्स्पादाघटितप्र | तन्मात्रेति कण्ठाभरणधृतः पाठः ।
  3. ↑ की सिद्धिः ।