लोकसापेक्षवेदनत्वात् । ततो भावाभाव [१] एवायम् । शुक्लादिव्यावृत्तिनिवन्धनस्तु नीलादिव्यवहारः सषयोरिव ष [२] व्यवहा
रो गौडानाम् । भावत्वेन वेदनमप्यसिद्धमित्यादि तात्पर्यशुद्धा [३]
वृदयन:, अथवा प्रतियोगिवाचकावच्छिन्ननञभिलापप्रतिभासशून्यतया विधिमुखत्वाभिमानात् । एतच्चालोकप्रतियोगिकनिषेधबोधकैरन्धकारतिमिरादिपदैरवच्छिन्नस्य तस्य भासनात् ।
न्यायलीलावतीकण्ठाभरणम्
रियोग्यताविरहान्न तद्ग्रहस्तथा च कुत्रारोप इत्यर्थः । तत इति । तेजोऽभावग्रहे प्रतिपक्षस्यालोकस्य तावन्नापेक्षा नीलव्यवहारस्तु तत्राऽ न्यथोपपन्न इत्यर्थः । अन्यथोपपत्तिमाह - शुक्लादीति । ननु रूपान्तरव्यवहार एव तत्र कथं न स्यादत आह-शषयोरिति । यथा वर्णान्तरव्या.. वृत्तिक्कतत्वेन तत्र नियमस्तथा प्रकृतेऽपीत्यर्थः । भावत्वेनेति । विधिमुखप्रत्ययवेद्यत्वमसिद्ध मित्यर्थः । विधिमुखप्रत्ययवेद्यत्वाभिमानमात्रं प्रकृते न तु परमार्थत एव तथा । अभिमानवीजमाह --- अथ वेति । प्रतियोगिवाचकं यत्पदं तत्र नञ्समभिक्याहारो नास्तीत्येतावतैवाऽयमभिमानः । नञभिलापशून्यत्वमेव कथं यद्यभावस्तम इत्यत आह - एतच्चेति । अन्धकारतिमिरादिपदानामालोकाभाव एव सङ्केतितत्वात्तत्र च नञ्समभिव्याहारेऽनन्वयापत्तेरिति भावः । 'अव-
न्यायलीलावतीप्रकाशः
स्मरणेऽव्यारोपविषयाज्ञानादारोपानुपपत्ते रित्यर्थः। एकदेशिमतमाह ---- शुक्लादीति । नीलादिव्यवहारः शब्दप्रयोगमात्रं न तु प्रतीतिरित्यर्थः । भावत्वेनेति । साधकमानाभावात्तत्र बाधकाच्चेत्यर्थः । अथ वेति । अ त्र नञभिलापशून्यत्वमेव प्रयोजकं प्रतियोगिवा बकेत्यादि त्वभावप्र-
न्यायलीलावतीप्रकाशविवृतिः
(का?) कारो नास्त्येवातो विशेषयति - शब्दप्रयोगमात्रमिति । भावत्वेनेतीति । यद्यपि विशब्दस्य निषेधार्थतया नअर्थकपदाभिलापशून्यत्वमसिद्धं तथापि नञभिलापशुन्यत्वमेव विवक्षितमन्यथा तिमिरादिपदस्यापि नञर्थकतया प्रकृतेऽप्यसिद्धापत्तेस्तद्याप्त्येवेति भावः । वस्तुतो वि-