विमलं जलं तिष्ठति भूपतिरितिवत् कदाचित्वालोका भावोऽधुनेत्यनेनाकारेण प्रतीयत इति । न चैकवाचकावच्छेदेन [१] वस्तु
प्रतिमासते, घटः कलश इति बहुशः प्रतीतेः । यदि वाऽऽलोकाभाव एव नीलत्वं भावत्वं चारोप्यते चलनवत न च प्रतिपक्षाप्रतीता-
न्यायलीलावतीकण्ठाभरणम्
च्छिन्नस्य' वाव्यस्य । अत्र दृष्टान्तमाह - विमलमिति । मलाभाववदित्यर्थः । तिष्ठतीति | इति (गतिनिवृत्तिमा ? ) नित्यर्थः । ननु तमसोSमावत्वे कदाचिन्निषेध मुखेनापि प्रतीतिः स्यादित्यत आह - कदाचिदिति । ननु तमरुत्वेन भासमानमालोकाभावत्वेन कथं भासतामत आह—न हाति । स्वाभिमतं सिद्धान्तमाह - यदि वेति । मूर्त्ते नीलमितिव्यपदेशमात्र मुक्कं इदानीं नीलरूपभानमेवाभ्युपगम्यते । चलति तम इत्यत्र कर्म्मा रोपवदित्यर्थः । ननु यद्यालोकाभाव एव तमस्तदा
न्यायलीलावतीप्रकाशः
तिपत्तिक्रमकथनोपयोगिमात्रम् । विमलमिति । मलाभावमात्रम् । 'तिष्ठति' गतिनिवृत्तिमानित्यर्थः । तथा च विध्यात्मकतया वेदनमसिद्धमिति भावः । स्वामिमतमाह - यदि चेति । शब्दप्रयोगमात्रं तदा कल्प्येत यद्यारोपरूपतायामनुभवसिद्धायां बाधकं स्यान्न त्वेवम्, आरोपे साद्द-
न्यायलीलावतीप्रकाशविश्वृतिः
शब्दस्यात्र द्योतकत्वमेवेति नञ् पर्यायामिला पशून्यत्व मस्त्येव । तिमिरपदमपि न नञ्पर्यायोऽधिक वाचकत्वादिति न प्रकृतेऽप्यसिद्धिरिति द्रष्टव्यम् | स्वच्छत्व पर्यन्त मिति यदि विमलशब्दार्थ: स्यात्तदा तत्र भावत्वप्रतीतिः प्रमैव स्यादिति न द्दटान्तसङ्गतिरतो मात्रग्रहणम् । 'वेदनं' प्रमा वेदनमात्रं च व्यभिचार्येवेति भावः । स्वाभिमतमिति । नीलत्वं तमसि न प्रतीयत एव व्यपदेशस्त्वनलिव्यावृत्तिकृत इति प्रागुक्तं तत्राऽनमिमत्या नीलत्वारोपं स्वाभिमतमाहेत्यर्थः । भावत्वारोपो यद्यपि पूर्वेणाऽपयुक्तस्तथापि पूर्वतरेण नोक्त्त इति तत्रापि स्वाभिमतत्वविशेषणाऽविरोधः आरोप इति एतच्च वस्तुगतिमति (भि?) सन्धाय । वस्तुतो यथाकथञ्चित्सा
- ↑ न हीति कण्ठाभरणधृतः पाठः । ०च्छेदेनैव व० ।